Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
न्यायमञ्जर्याम्
मुख्यमर्थमथ लाक्षणिकं वा गौणमप्यवगमय्य च शब्दः । लोकवेदविहितं व्यवहारं सन्तनोति तदभिज्ञमतीनाम् ॥ कुर्यादाक्षेपं यश्च भाक्ते प्रयोगे वाच्यं मत्वा ऽर्थं तत्र वक्तुर्न दोषः । तेन त्वात्मीयं शब्दवृत्तानभिज्ञं रूपं व्यक्तं स्यादत्र वृद्धाः प्रमाणम् ॥ अथ छळपरीक्षा |
१७२
एवं छलस्य विशेषलक्षणान्यभिधाय तत्परीक्षायामाक्षेपं करोतिबाक्छलमेवोपचारच्छलं तदविशेषात् ॥
-
गौ. सु. अ. १ आ. २ सु. १५ ।
म खलु वागुपचारच्छलयोः कश्चिद्विशेषः अनेकधा शब्दार्थं सम्भवति वभिमतादर्थादन्यस्य कल्पनं तत्प्रतिषेधनं चोभयत्रापि समानमवान्तरविशेषकृतनानास्वाभ्युपगमे वा तदानन्त्यप्रसङ्गः ।
अत्र समाधिमाह—
"
न तदर्थान्तरभावात् ॥ गौ. सु. अ. १ आ. २ सु. १७ । नैतदेवं वाक्छलमेवोपचारच्छलमिति ततोऽर्थान्तरत्वात् वाक्छले हि नवकम्बल इति नवसु कम्बलेषु नवे च कम्बले मुख्यार्थ एव शब्दः स राम इत्यादिवत्, ततस्त्वेकतरं वक्तूनभिप्रेतं छलवादिना ऽऽरोप्य निषिध्यते, उपचारच्छतु काष्टसन्निवेशे मुख्यायें मञ्चशब्दः पुरुषे भक्त्या प्रवृत्त: मुख्यमभि.. धाय च गौणः प्रत्याय्यो भवति न त्वेष क्रमः साधारणशब्देष्विति महाम्भेदः, वाक्यले चार्थससैव निषिध्यते कुत्तो ऽस्य नव कम्बला इतीह तु सतो मभ्वस्य क्रोशनशक्तिर्निषिध्यते ।
समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले वाच्यः उपचारच्छले तु गौणादिशब्दवृत्त्यनभिज्ञतामिति महान्विशेषः ।
अविशेषे वा किंश्चित्साधर्म्यादेि कच्छळ प्रसङ्गः । गौ. सु. अ. १ आ. २ सू. १६ ।
छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते यतः समान्यच्छलं पार्श्वे कृत्वा वागुपचारच्छलयोरभेदमुपहितवानसि यथा चायं तदविशेषादिति त्रित्वप्रतिषेधस्तथा द्वित्वस्यापि किंचित्साधर्म्यस्य सामान्यच्छले ऽपि भावात्, तथा हि यदि तावद्वाचि निमित्तभूतायामिदं प्रवृत्तं छलमिदं चेति तदभेद् मन्यसे तर्हि सामान्यच्छलमपि मा वोचः तदपि हि न शरीरे मनसि बुद्धौ वा निमित्ते अपि तु वाच्येवेति वाक्छलमेवैकं स्यात्, अथैवं सत्यपि तद्विशेषो दृश्यमानो न पराणुद्यते सामान्यच्छले ऽपि न शब्दार्थो ऽन्यथा कृतः किं तु
Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656