Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 550
________________ अवयवप्रकरणम् । १३५ कलक्ष्यमत्रोदाहरणसाधर्म्य वैधय॑सम्भवे तु सति साधर्म्यमप्यस्त्येवेति, न सावधारणं वा विशेषविधिरूपेणैवेदमुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्णनीयमिति । “ननु यदि द्विविधो हेतुरिष्यते तर्हि सामान्यलक्षणमादौ वक्तव्यं ततो विशेषलक्षणमिति"। उच्यते-साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं सामाः न्यलक्षणं भविष्यति, उदाहरणसाधर्म्यग्रहणं त्वन्वयव्यतिरेकिणो लक्षणमुत्तरसूत्रं च केवलव्यतिरेकिणः, केवलान्वयी हेतुर्नास्त्येवेत्येवं पञ्चमीमुपेक्ष्यार्थात्मकहेतुलक्षणमाचख्युः । अपि वा भातु तत्रापि संशयव्यवच्छेदफलः पञ्चमीपाठः,क. श्चिदेवमभिदधीत–साध्यसाधनमिति पर्यायपठनमात्रमेतन्न हेतुलक्षणम् , अपि च यत्रैव दृष्टान्तमिणि हेतुधर्मग्रयुक्ततया साध्यधर्मोऽवधारितस्तत्रैव पुनरसावुपलभ्यमानस्तमुपस्थापयतु धम्यन्तरे तु तदुपलम्भाद्भवतु संशयः-'किं तत्साध्याविनाभूतमिह हेतोस्सत्त्वमुतान्ययेति, अस्येदमुत्तरमुच्यते उदाहरणसाधादिति । अयमर्थः-देशकालव्यक्तिविशेषाणां व्यभिचारान्न तेषु प्रतिबन्धावधारणमपितु सामान्यधर्मयोरेव, व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत् । दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम् ॥ तदभ्यनुज्ञानात्तु सामान्येन व्याप्तिग्रहणमङ्गीकृतमेव भवति । तस्मिंश्च सत्युदाहरणसाधासाध्यसाधनमेव भवति न संशयः संशयस्य विशेषग्र. हणकारणकत्वादिह चोदाहरणसाधर्म्यपदोपात्तं लिङ्गसामान्यमेव विशेषो गृह्यते इति कुतः संशयः, साध्यसाधनपदमपि न पर्यायमात्रमपि तु पश्चलक्ष. णकप्रतिबन्धसूचनेन हेतोः हेतुत्वसमर्थनार्थमेतत् , कस्माद्धेतुहतुर्भवति साध्य. साधनत्वाद्गमकत्वादित्यर्थः, साध्यसाधनता चास्य पञ्चलक्षणकात्प्रतिबन्धाद्विनान निवहतोत्यसो साध्यसाधनपदेन लक्ष्यते, सोऽपि च प्रयोज्यप्रयोजकभा. वगर्भस्साधनताङ्गतामेतीति तथाविध एव सूच्यते, अत एव चाप्रयोजक एवै. कः परमार्थतो हेत्वाभास इति वक्ष्यते, तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो भवतीत्युदाहरणसाधयादिति संशयं व्यवच्छिन्दन्त्या पञ्चम्या कथ्यते, अतश्च यदुच्यते परैः 'साधर्म्य यदि हेतुः स्यान्न वाक्यांशो न पञ्चमी'ति तदिदमनुपपन्नम् , पञ्चम्याअर्थात्मकल्वे हेतावनुपयोगात्तत्रापि वा तस्याः समर्थितत्वात् , वाक्यांशे लक्षणान्तरकरणात् तच्चेदमिदानीमुच्यते उदाहरणसाधात्साध्यसाधनं हेतुः, यद्यपि च ज्ञानस्याप्यदाहरणसाधोत्कर्मभूतात्करणात्मक. त्वाद्वाद्भवत्यभिनिवृत्तिस्तथापि वाक्यावयवप्रकरणसामर्थ्याद् वचनमवसीयते । "यदि वाक्यावयवप्रकरणमिदं किमर्थं तर्षर्थव्युत्पादनम्” उक्तमत्र तदोपयिकत्वाद् इति, “साध्यसाधनप्रहणं वचनलक्षणे किमर्थम् ? हेत्वाभासवचननिरसनमर्थात्मकहेतुलक्षणादेव हि सिद्धम्" न हेत्वाभासवचनव्यवच्छेदकं पक्षधर्मव.

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656