________________
अवयवप्रकरणम् ।
१३५ कलक्ष्यमत्रोदाहरणसाधर्म्य वैधय॑सम्भवे तु सति साधर्म्यमप्यस्त्येवेति, न सावधारणं वा विशेषविधिरूपेणैवेदमुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्णनीयमिति । “ननु यदि द्विविधो हेतुरिष्यते तर्हि सामान्यलक्षणमादौ वक्तव्यं ततो विशेषलक्षणमिति"। उच्यते-साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं सामाः न्यलक्षणं भविष्यति, उदाहरणसाधर्म्यग्रहणं त्वन्वयव्यतिरेकिणो लक्षणमुत्तरसूत्रं च केवलव्यतिरेकिणः, केवलान्वयी हेतुर्नास्त्येवेत्येवं पञ्चमीमुपेक्ष्यार्थात्मकहेतुलक्षणमाचख्युः । अपि वा भातु तत्रापि संशयव्यवच्छेदफलः पञ्चमीपाठः,क. श्चिदेवमभिदधीत–साध्यसाधनमिति पर्यायपठनमात्रमेतन्न हेतुलक्षणम् , अपि च यत्रैव दृष्टान्तमिणि हेतुधर्मग्रयुक्ततया साध्यधर्मोऽवधारितस्तत्रैव पुनरसावुपलभ्यमानस्तमुपस्थापयतु धम्यन्तरे तु तदुपलम्भाद्भवतु संशयः-'किं तत्साध्याविनाभूतमिह हेतोस्सत्त्वमुतान्ययेति, अस्येदमुत्तरमुच्यते उदाहरणसाधादिति । अयमर्थः-देशकालव्यक्तिविशेषाणां व्यभिचारान्न तेषु प्रतिबन्धावधारणमपितु सामान्यधर्मयोरेव,
व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत् ।
दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम् ॥ तदभ्यनुज्ञानात्तु सामान्येन व्याप्तिग्रहणमङ्गीकृतमेव भवति । तस्मिंश्च सत्युदाहरणसाधासाध्यसाधनमेव भवति न संशयः संशयस्य विशेषग्र. हणकारणकत्वादिह चोदाहरणसाधर्म्यपदोपात्तं लिङ्गसामान्यमेव विशेषो गृह्यते इति कुतः संशयः, साध्यसाधनपदमपि न पर्यायमात्रमपि तु पश्चलक्ष. णकप्रतिबन्धसूचनेन हेतोः हेतुत्वसमर्थनार्थमेतत् , कस्माद्धेतुहतुर्भवति साध्य. साधनत्वाद्गमकत्वादित्यर्थः, साध्यसाधनता चास्य पञ्चलक्षणकात्प्रतिबन्धाद्विनान निवहतोत्यसो साध्यसाधनपदेन लक्ष्यते, सोऽपि च प्रयोज्यप्रयोजकभा. वगर्भस्साधनताङ्गतामेतीति तथाविध एव सूच्यते, अत एव चाप्रयोजक एवै. कः परमार्थतो हेत्वाभास इति वक्ष्यते, तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो भवतीत्युदाहरणसाधयादिति संशयं व्यवच्छिन्दन्त्या पञ्चम्या कथ्यते, अतश्च यदुच्यते परैः 'साधर्म्य यदि हेतुः स्यान्न वाक्यांशो न पञ्चमी'ति तदिदमनुपपन्नम् , पञ्चम्याअर्थात्मकल्वे हेतावनुपयोगात्तत्रापि वा तस्याः समर्थितत्वात् , वाक्यांशे लक्षणान्तरकरणात् तच्चेदमिदानीमुच्यते उदाहरणसाधात्साध्यसाधनं हेतुः, यद्यपि च ज्ञानस्याप्यदाहरणसाधोत्कर्मभूतात्करणात्मक. त्वाद्वाद्भवत्यभिनिवृत्तिस्तथापि वाक्यावयवप्रकरणसामर्थ्याद् वचनमवसीयते । "यदि वाक्यावयवप्रकरणमिदं किमर्थं तर्षर्थव्युत्पादनम्” उक्तमत्र तदोपयिकत्वाद् इति, “साध्यसाधनप्रहणं वचनलक्षणे किमर्थम् ? हेत्वाभासवचननिरसनमर्थात्मकहेतुलक्षणादेव हि सिद्धम्" न हेत्वाभासवचनव्यवच्छेदकं पक्षधर्मव.