________________
१२६
न्यायमअर्याम् चनं कृतकत्वादित्येवमादि प्रयोक्तव्यमपि तु हेतुविभक्त्यन्तं कृतकवादित्येवमा दि प्रयोक्तव्यमिति कृतकत्वेनेति कृतकोऽयमस्मादिति वाऽभिघातव्यमेवं हि तत्साध्यसाधनं भवतीति ॥
तथा वैधात् ॥ (१।१।३५) उदाहरणग्रहणमनुवर्तते साध्यसाधनमिति च , एतच्च तथाशब्दोपादानसा. मागम्यते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः , अत्राप्यर्थात्मकहेतुपूर्वक त्वाद्वचनस्यार्थात्मक एव हेतुः प्रथमं लक्ष्यते इति तल्लक्षणाय पूर्ववत्पञ्चमीपा. ठशून्यमेव सूत्रं वर्णयन्ति , वैधर्म्य हेतुरित्युच्यमाने पक्षवेधर्म्यस्यापि विपक्षवृत्तेरशेषाश्वव्यक्तिपक्षीकरणे तुरगा इमे विषाणादित्येवमादेहेतुत्वं स्यादित्युः दाहरणग्रहणम् , तथाऽप्यसाधारणादेरुदाहरणवैधय॑स्य हेतुता प्रसज्यते इति पूर्ववत्साध्यसाधनग्रहणं प्रतिबन्धसूचके सकलहेत्वाभासव्यवच्छेदके योजनीय. म , तस्मादेव सकलहेत्वाभासव्यवच्छेदसिद्धेरुदाहरणवैधर्म्यग्रहणं समानजाती. यान्वयव्यतिरेकिहेतुव्यवच्छेदसिद्धये व्याख्येयम् । ___ "ननु च वैधय॑शब्दः केवलान्वयिनमेव हेतमव्यतिरेकं व्यवच्छेत्तमलं, तस्य वैधर्म्यशून्यत्वादन्वयव्यतिरेकिणोस्तु हेत्वोरुदाहरणसाधर्म्यस्यापि भावास्कथमनेन व्यावर्तनम् ?" उच्यते
वैधर्म्यशब्दोपाद्रानात्केवलान्वयिनो यथा । निवृत्तिर्गम्यते तद्वदन्वयव्यतिरेकिणः ।। साध्यसाधनशब्दो हि प्रतिबन्धोपलक्षणः । व्याख्यातः प्रतिबन्धश्च ध्यतिरेकान्वयात्मकः॥ वैधर्म्यसाधनेऽप्यस्मिन् स एव यदि वर्ण्यते । पूर्वत्र कथनाद्वयर्थ वैधर्म्यग्रहणं भवेत् ॥ केवलव्यतिरेकाख्यप्रतिबन्धाभिधित्सया। वैधर्म्यवचनं तत्स्मात्सफलं व्यवतिष्ठते ॥ अध्याहृतैवकारं वा तद्वयुदासाय पठ्यताम् । विशेषविधिरूपेण व्याख्यानं वा विधीयतम् ।। केवलान्वयिहेतुश्च न कश्चिदुपलभ्यते ।
तेन पूर्वोक्त एवास्य व्यवच्छेद्यो भविष्यति ॥ - "नन्वेवं तयनेनैव न्यायेन पूर्वसूत्रं केवलान्वयिलक्षणार्थ स्यात् , यथेह वैधर्म्यग्रहणं साधर्म्यव्यवच्छेदकमेवं तत्र साधर्म्यग्रहणं वैधर्म्यव्यवच्छेदाय स्यादिति” । उक्तमत्र न केवलान्वयी नाम हेतुः संभवतीत्यलक्षणीय एवासौ , तदेवमन्वयव्यतिरेकवतो हेतोर्लक्षणाय पूर्वसूत्रमिदं तु केवलव्यतिरेकिलक्षणाये