________________
अवयवप्रकरणम् । ति स्थितम् , अर्थात्मकहेतुलक्षणाक्षेऽपि पञ्चमीपाठः पूर्ववत्संशयपराकरणफलत्वेन वर्णनीयः, वचनात्मकहतलक्षणे ऽपि तथैव सूत्रं योग्यम् , यथोक्तवै. धात्प्रवृत्तं वचनं साध्यसाधनं हेतविभक्त्यन्तं प्रयोक्तव्यमित्यर्थः ।
केवलव्यतिरेक्याक्षपः । तदेतदाक्षिपन्ति “लक्ष्ये सति लक्षणं वक्तव्यं भवति केवलव्यतिरेकी त नाम न सम स्त्येव हेतुरिति कस्येदं लक्षणमुच्यते ? प्रतिबन्धेन हि हेतोर्गमका त्वमुक्त प्रतिबन्धश्च पञ्चलक्षणको व्याख्यातः, एकैकलक्षणविरहनिबन्धनाश्च पञ्चहेत्वाभासा भविष्यन्ति,तत्पक्षधर्मत्वविरहिण इवासिद्धस्य हेतोरन्वयशून्य. स्याऽपि (न)हेतुता युक्ता केवलव्यतिरेकमात्रशरणेन हेतुना साध्यसिद्धौ तथाविधहेतुसुभिक्षसंभवाद्यद्यस्मै रोचते स तत्सर्वं साधयेत् , असाधारणस्य वा किमिति (न?) हेतुत्वं, व्यतिरेकवतोऽपि संशयः-'साध्याभावकृता तस्माद्वयावृत्तिरुत वाऽन्यथा', अन्वये हि कचिद्गृहीतेऽन्यत्र हेतुव्यावृत्तिरवगम्यमाना साध्यव्यावृत्तिकृतैवेत्यवधार्यते नेतरथा, इत्थमेव संदिग्धव्यतिरेकता व्यावर्तते नान्यथेति,
संदिग्धव्यतिरेके च साध्यसाधनता कथम् ।
लक्ष्याभावादतश्चेदं कथ्यते तस्य लक्षणम् ।। तस्मान्न साधनग्रहणेन हेतुद्वयसामान्यलक्षणमभिधायोदाहरणसाधर्म्यग्रहणेनान्वयव्यतिरेकिणो लक्षणमुदाहरणवैधर्म्यग्रहणेन च केवलव्यतिरेकिणो वर्णनीयमपि तु सूत्रद्वयनैतस्यैवाऽन्वयव्यतिरेकवतो हेतोर्लक्षणं व्याख्येयम् । अन्वयव्यतिरेकयोर्गमकाङ्गत्वादेकेनान्वयनिरूपणमपरेण च सूत्रेणाव्यतिरेकव्युत्पादनम् , अत एव च भाज्यकार: 'किमेतावद्धतुलक्षणं नेत्युच्यते तथा वैध.
D'दित्येकवाक्यतयैव व्याख्यातवान , उदाहरणमपि च सूत्रद्वये तुल्यमेवान्वय. व्यतिरेकिहेतोरुक्तवा'नुत्पत्तिधर्मकत्वादिति ।
केवळव्यतिरेकिस्थापनम् । अत्र वदन्ति-यदि वयं यं कंचन शुष्कमेव केवलव्यतिरेकिणं हेतुमुपगच्छेम तत एवमनुयुज्येमहि किन्त्वन्वयव्यतिरेकवानेव हेतुः कचित्साध्यवि. शेषे विशेषणविशेषवशात्केवलव्यतिरेकितामवलम्बत इति ब्रमः, तद्यथेच्छादिगतं कार्यत्वमात्मसिद्धौ, तत्र हि कार्यत्वमाश्रितत्वमात्रेण व्याप्तमुपलब्धमन्वयव्यतिरेकयुक्तमेव घटादेः कार्यस्याश्रितस्य दृष्टत्वात् , यत्र ह्याश्रियत्वं नास्ति तत्र कार्यत्वमपि नास्त्येव व्योमादी, सोऽयमन्वव्यतिरेकवानेव हेतुर्यदा परिह. श्यमानशरीराधाश्रयव्यतिरिक्ताश्रयाश्रितत्वे साध्ये देहादिषु बाधकोपपत्तौ सत्यां (विलक्षण? )कार्यत्वादिति सविशेषणः प्रयुज्यते तदा केवलव्यतिरेकी सम्पद्यते, देहादिव्यतिरिक्तस्याश्रयस्यात्मनो नित्यपरोक्षत्वेनान्वयानुपलम्भा.