________________
१३८
न्यायमञ्जर्याम्
दिति, ईदृशस्य चान्वयमूलस्य तस्यां दशायां केवल व्यतिरेकितामुपगतस्य हेतुत्वानुपगमान्न पूर्वोक्तदोषावसरः, न हीदृशा हेतुना सर्वः सर्व साधयितुमुत्सहते, न चासाधारणस्य हेतुत्वमित्थं स्थिते प्रसज्यते, पञ्चलक्षणस्त्रमपि पूर्वाश्रयापेक्षस्य भविष्यति, यच्च संदिग्धव्यतिरेकित्वमाशङ्कितं तत्यन्वयव्यतिरेकमूले केवलव्यतिरेकिणि निरवकाशं कार्यस्याश्रितस्योपलम्भादाश्रितत्वव्यावृत्त्या व्योमादौ च कार्यत्वव्यावृत्तिदर्शनादिदानीं घटादौ शरीरे वा सविशेषणकार्यत्वव्यावृत्तिर्दृश्यमाना विशिष्टाश्रयव्यावृत्तिगतैवावगम्यते इति न संदिग्धो व्यतिरेकः, एतचात्मसिद्धिप्रसङ्गे निर्णीतमिति निरपवादः केवल व्यतिरेकी हेतुरस्त्येव लक्ष्यते इति तल्लक्षणार्थमुत्तरसूत्रमन्वयव्यतिरेकिहे तुलक्षणार्थं च सूत्रं, केवलान्वयी हेतुर्नास्त्येव, सामान्यलक्षणं त्वनुमानलक्षणात्साध्यसाधनपदाद्वाऽवगन्तव्यम्, भाष्याक्षराणि तु कथमप्युपेक्षिष्यामहे । अथवा यथाकथंचिद्वा व्याख्यास्यामः, केवलव्यतिरेकिणं त्वीदृशमात्मादिप्रसाधने परममस्त्रमुपेक्षितुं न शक्नुम इत्ययथाभाष्यमपि व्याख्यानं श्रेयः ॥
साध्यसाधम्र्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ( १ । १ । ३६ )
यथा 'तत्पूर्वकमनुमानमित्यत्र प्रतिबन्धग्रहणोपाय मात्रं प्रतिपादितमिह तु प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यवैधर्म्ययुक्तमेवं लौकिकपरीक्षकारणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः इत्यत्र वादिप्रतिवादिप्रतिपन्नत्वं द्विविधस्यापि दृष्टान्तस्य सामान्यलक्षणमुक्तमिह तु प्रयोज्य प्रयोजकभावव्यवस्थित साध्य साधनधर्माधिक रणत्वमेकस्य द्वितीयस्य च तद्रहितत्वं लक्षणमुपपाद्यते । तत्र 'साध्यसाधर्म्यात्तद्धर्मभावी'ति साधर्म्यदृष्टान्तस्य लक्षणम्, वचनाधिकरणेऽप्यर्थात्मकदृष्टान्तचि न्तनं तदौपायिकत्वाद्धेतुवत्कर्त्तव्यम्, साध्यं धर्मविशिष्ट धर्मी तेन साधर्म्य साधनधर्मो लिङ्गसामान्यं यत्तदुदाहरणसाधम्र्ये पूर्वमुक्तं तदेव द्विष्टत्वादुभाभ्यां व्यपदिश्यते इतीह साध्यसाधर्म्यशब्देनोक्तम, तस्मात्साध्यसाधर्म्याद्यस्तद्धर्मभावी तस्य साध्यस्य धर्मों नित्यत्वादिर्यस्मिन्भवति स तद्धर्मभावी, पञ्चम्या प्रयोजकत्वमुच्यते, हेतुधर्मप्रयुक्तः साध्यधमों यत्रास्ति स साध्यधर्मदृष्टान्त इत्यर्थः, स एव च वचसा कर्मतां प्रतिपद्यमान उदाहरणं भवतीत्यर्थवचनवाचिनोर्दृष्टा न्तोदाहरणशब्दयोः सामानाधिकरण्यमविरुद्धम्, दृष्टान्त एकान्वयव्यापकेन वचनेनोद्यमान उदाहरणमित्युक्ते तदभिधायकं वचनमुदाहरणमुक्तं भवत्येव - 'यद्यत्कृतकं तत्तदनित्यं दृष्टं यथा घट' इति ।
"नन्वेवं यत्र हेतुकृता साध्यधर्मसत्ता यथा जलधरोन्नमनवृष्ट्यादौ तादृश एव दृष्टान्त उपदिष्टो भवेन्न यन्त्र साध्यधर्मकृता हेतुसत्ता यथा धूमानुमान इति" । प्रदर्शनज्ञो देवानांप्रियः, नानोत्पत्यपेक्षया प्रयोज्य प्रयोजकभावो विवक्षितः किन्तु ज्ञप्त्यभिप्रायेण, ज्ञप्तौ च धूमः एवाग्नेः प्रयोजकतां प्रतिपद्यते, न हि