________________
अवयवप्रकरणम् ।
१९९ घूमाग्न्योः कार्यकारणभावेन गम्यगमकभावः किन्तु नित्यसाहचर्येणैव नियमनाना सम्बन्धेनेत्यसकृदुक्तम् ।
धूमः स्वरूपतो नाम जायतां जातवेदसः। नामिस्तमाक्षिपत्येनं स एव ह्यग्निमाक्षिपेत् ।। प्रयोजकत्वमग्नेश्व पञ्चम्या यदि कथ्यते । यत्र तत्रामिरित्येवं तन्निर्देशः प्रसज्यते ॥ यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत् । यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति ॥ भवेदेवं च हेतुत्वं धूमं प्रति विभावसोः । न च तधुज्यते वक्तुमनैकान्तिकदोषतः ॥
प्रयोजकत्वमिच्छन्ति तस्मान्नोत्पत्त्यपेक्षया । अपि तु ज्ञप्त्यभिप्राय हेतोरेवोचितं तत् , तस्माद्धेतुधर्मप्रयुक्तः साध्यधर्मो य उत्थाप्यते स साध्यधर्मदृष्टान्तस्तद्वचनमुदाहरणमिति सिद्धम् ॥
तद्विपर्ययाद्वा विपरीतम् ॥ ( १।३७) दृष्टान्त उदाहरणमिति वर्तते, तदिति साध्यधर्मपरामर्शः, तच यद्यपि पूर्वसूत्रे लिङ्गसामान्यं तथाप्यत्र साध्यसाधर्म्य द्रष्टव्यम् ,तद्विपर्ययात्साध्याभावाद्विपरीतः अतद्धर्मभावी साधनरहितो यो दृष्टान्तः स वैधर्म्यदृष्टान्तः पूर्ववद्वचसः कर्मतामापद्यमानो वैधयोंदाहरणं भवति, विपरीतमित्युदाहरणापेक्षया नपुंसकलिङ्गनिर्देशः।
"किमर्थ पुनः साध्याभावात्साधनाभावो वैधर्म्यदृष्टान्तः स वर्ण्यते न पुनः साधर्म्यदृष्टान्तस्थित्या साधनाभावादेव साध्याभाव इति"।
उक्तमत्र
व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः ।
स एव वैपरीत्येन मन्तव्यस्तदभावयोः॥ इति । कि कारणम् ? साधनधर्मे हि धूमे साभ्यधर्मेणामिना व्याप्तेनाग्निः तत्र निवेशमलभमानोऽनन्यत्रावकाशत्वाद् धूम एव निवेशितः, एवं साध्यधर्माभावेऽननो साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्तत्र लब्धावकाशोऽनन्यगतित्वादनावेव निविशत इति, यदि तु साधर्म्यदृष्टान्तवत्तथैव व्याप्यव्यापकभावः ख्याप्यते साधनाभावे साध्यं नास्तीति तदा धमाभावेनानमिना व्याप्तेनानिस्तत्रालब्धनिवेशो धूममवलम्बेतेति स्यात् , न चैतन्निर्वहत्यधूमेऽपि वह्निदर्शनादित्येवं सपकदेशवृत्त हेतुत्वमपि प्रसिद्धं हीयते व्याप्तिवैधुर्यादिति, अपि च धूमामावेनाग्न्यभावे व्याप्ते कथ्यमाने सत्यधूमो नियमितो भवत्यनग्निं माहासीदित्यग्निस्त्वनिगमितः स्वातन्त्र्यावधममपि स्पृशेदिति व्यभिचारात्प्रतिबन्धो विप्लवे.