SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ १४० न्यायमञ्जयाम् त, तदुक्तं-'यदा तु साध्याभावेन हेत्वभावो विरुध्यते साधनं ख्यापितं भवेत् , साध्यं पुनः स्वतन्त्रत्वाद्धेतुभावेऽपि सम्भवेत्' इति(?) । तस्माद्यत्रापि समव्या. प्तिको साध्यसाधनधमोविति सपक्षकदेशवृत्तित्वेनाहेतुत्वमाशङ्कयते तत्रापि साधनधर्मस्य विपक्षाद्यावृत्तिमभिधित्सता साध्याभावे साधनाभावो दर्शयितव्यः , यत्रानित्यत्वं नास्ति तत्राकृतकत्वमपि नास्ति यथाऽऽकाश इति, यो ह्यविद्यमा. नविपक्षो देतुः सोऽपि सुतरां ततो व्यावृत्तो भवति तदभावात्तत्रावृत्तरिति , अतश्च सर्वपदार्थानित्यत्वं नास्ति, तत्र कार्यत्ववाद्येवमपि वैधHदृष्टान्तमप्रदर्श यन्न वार्यते-यत्र नित्यत्वं नास्ति तत्र कार्यत्वमपि नास्ति यथा शशविषाणादाविति, ते एते साधम्यवेधयाँदाहरणे अन्वयव्यतिरेकवति हेतावुभे अपि सम्भ. वन्ती विकल्पेन प्रयोक्तव्ये, एकेनैव व्याप्ते: प्रदर्शनाकिमन्येन कृत्यम् । केचित्त व्याप्तिसौष्ठवप्रदर्शनाय द्वयोरपि प्रयोगमिच्छन्ति, भवतु मा वा भून्नेदं महद्विमर्दस्थानम् । “ननु हेतूदाहरणाधिकमिति निग्रहस्थानमिदमादिष्टम्" समा. नजातीयाभिप्रायं तद्भविष्यति, साधर्म्यदृष्टान्तानेकत्वे वा तन्निग्रहस्थानमि त्यास्तामेतत, इत्थं साधर्म्यवैधर्म्यदृष्टान्तरूपे व्युत्पादिते बलातल्लक्षणरहिता दृष्टान्ताभासा भवन्ति, तत्र साध्यविकलः साधनविकल उभयविकल इति वस्तु. दोषकृतास्त्रयः साधय॑दृष्टान्ताभासाः, अनन्वयो विपरीतान्वय इति द्वौ वचनदोषकृतो, यथा नित्यः शब्द अमूर्तत्वादित्यत्र बुद्धिवदिति साध्यविकलो दृष्टा. तः, परमाणुवदिति साधनविकलः, घटवदित्युभयविकलः, व्याम्नि नित्यत्वा-. न्मर्तत्वं विद्यते इत्यनन्वयः, यदमृत तन्नित्यमिति वक्तव्ये यन्नित्यं तदमर्तमिति विपरीतान्वय इति। वैधय॑दृष्टान्ताभासा अपि पञ्चैव-साध्याव्यावृतः साधनाव्यावृतः उभयाव्यावृत्त इति वस्तुदोषास्त्रयः, अन्यतिरेको विपरीतब्यतिरेक इति वचनदोषौ द्वौ, यथा तत्रैव हेतौ यत्र नित्यत्वं नास्ति तत्र मूर्तत्वमपि नास्ति यथा परमाणुष्विति साध्याब्यावृत्तः, बुद्धाविति साधनाब्यावृतः, यथाऽऽकाश इत्युभयाव्यावृत्तः, नित्यत्वामूर्तत्वे घटे न विद्यते इत्यव्यतिरेकः, यत्र नि. त्यत्वमपि नास्ति तत्रामूर्तत्वमपि नास्ति इति वक्तव्ये यत्रामूर्तत्वं नास्ति तत्र नित्यत्वमपि नास्तीति विपरीतव्यतिरेक इति । एते च वस्तुवृत्तेन हेतुदोषा एव तदनुविधायित्वादत एव हेत्वाभासवत्सूत्रकृता नोपदिष्टाः अस्माभिस्तु शिष्य. हिताय प्रदर्शिता एव ॥ उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा सा. ___ ध्यस्योपनयः (१।१।३९ ) उदाहरणमात्मलाभेऽपेक्षत इत्युदाहरणापेक्षाः पक्षधोपसंहार उपनयः, द्विविधिश्चासौ तथेति न तथेति वा उदाहरणद्वैविध्यात् , तत्र साधोदाहरणापे.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy