________________
अवयवप्रकरणम् ।
१४१ चास्तयेत्युपनयो यत्कृतकं तदनित्यं दृष्टं यथाऽऽकाशः, न चन तथा कृतकः शब्द इति, अत्रापि निषेधद्वययोगाद्विधिरेव गम्यते। ___ "ननु साध्यस्येत्यवाचकः सूत्रावयवः पक्षधोपसंहारो छुपनयो न साध्यो. पसंहारः, साध्यो हि धर्मो धर्मी वा स्यान्न तयोरन्यतरस्याप्ययमुपसंहार इति" ।
उच्यते-साध्यो धय॑व न धर्म इह विवक्षितः, तत्रायं हेतोरुपसंहा. रस्तथा च कृतकः शब्द इति, सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या साध्ये धर्मिणि हेतोरुपसंहार उपनय इति ।
"नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी । सम्बन्धमात्रे वाच्ये वा कथमाधारतोच्यते ॥" नैतत्सम्बन्धसामान्येऽप्युक्ते भवति धर्मिणा । योगो विशेषचिन्तायां तस्य त्वाधारता भवेत् ॥ विशेषेऽन्तर्निगढे च प्रायः षष्ठी नियुज्यते । शेषो नामाविवौव कारकाणामिति स्थितिः॥ तथा च राज्ञः पुरुषो ब्राह्मणस्य कमण्डलुः।
तरोः शाखेति सर्वत्र विशेषोऽन्तर्व्यवस्थितः ।। अतश्च धर्माय जिज्ञाया धर्मजिज्ञासा सा हि तस्य ज्ञातुमिच्छेतिवत्सम्ब. न्धमात्रसमर्पिकाऽपि सेयं षष्ठी विशेषपर्यवसाना भविष्यतीति सूक्तं-'साध्य. स्योपसंहार" इति,
उपनयाजीकारे आक्षेपः। "ननूपनयवचनमनर्थकं पचाहतुदृष्टान्तवचनैः किं न पर्याप्तं यदर्थमपन. यवचनमुचायते ? यदि धर्मिणि हेतोः सत्त्वसिद्धये तदभिधानं तदैष वृथैव श्रमः पक्षधर्मवचनेनैव कृतकत्वादित्येवमादिना सिद्धत्वात् , अथ साध्य. दृष्टान्वधर्मिणोः साध्यापादनाय तदुच्चारणं तदपि न चतुरस्रमुदाहरणसाध.
या॑दित्यनेनैव गतार्थत्वात् , उदाहरणसाधर्म्यवचनं हि हेतुवचनमेव भवेत, अथ स्वप्रतिपत्तौ तदर्थदर्शनात्परं प्रति तद्वचनं तत्रापि परामर्शज्ञाने विवदन्ते, अपि च स्वयं दधिभक्षणसमनन्तरं यदि कदाचिदनुमेयमिति उपजायते तत्क परस्मै तदुपदिश्यताम् , योऽप्ययं प्रतिज्ञाहेतूदाहरणोपनयनिगमनप्रयोगक्रम आश्रीयते सोऽपि स्वप्रक्रियानुरागनिर्मित एव न वस्तुबलप्रवृत्तः, तथा हि यद्य. कृतकं तत्तदनित्यं दृष्ट कृतकश्च शब्द इतीयतो वचनात्को नाम शब्दानित्यता नावगच्छेत् , वामे चात्र सत्यव्रतधनः प्रमाणं डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत्किमियताऽथ बुद्धचसे न वा, तस्मात्स्वप्रक्रियापक्षपातमपास्य पञ्चावयवमेवंक्रमकं वाक्यं प्रयुक्वेति” ।