________________
न्ययमञ्जर्याम्
उपनक्षेपमाधिः ।
अत्रोच्यते - इदं तावद्भवान्पृष्टो व्याचष्टां किं स्वप्रतिपत्तिमनुसरन्तः परप्रतिपादनाय वाक्यवचनां कुर्मः उत परहृदयानुवर्तनेनेति ? तत्र पराभिप्रायस्य वैचित्र्यात्परोक्षत्वाच्च दुरवगमत्वेन न विद्भः किं विदध्महे किं भुवमुत्क्षिापामः किमरत्निना परं पीडयामः उत हस्तसंज्ञया व्यवहराम: आहो हेतुमात्रमेव केवलं प्रयुज्महे किं वा त्र्यवयवं वाक्यमभिदध्मः उत पञ्चावयवादपि वाक्यादधिकमाख्यानकमस्मै वर्णयाम इत्येवमनवस्थितत्वात्पराभिप्रायस्य स्वप्रतिपत्तिमेवानुसरता परः प्रत्याय्यः, तत्र स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञया कथ्यते, ततो धूमादिलिङ्गमुपलब्धमिति हेतुवचनेन तदावेद्यते, ततो यत्र धूमस्तत्राग्निर्यथा महानस इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा तदभिधीयते, ततस्तथा चायं धूम इति परामर्शज्ञानमुदपादीति तदुपनयवचनेन प्रतिपाद्यते, ततस्तस्मादत्राग्निरित्यनुमेयज्ञानमुपजायते इति निगमनेन तदुच्यते, ततः परं प्रति पर्यवसानात्किमन्यदुपदिश्यतामिति, न च दधिभक्षणसदृशमतोऽन्यतममपि भवितुमर्हत्यनुमेयप्रतिपत्तावुपादेयत्वात्, येषामपि मते परामर्शज्ञानं नास्ति तैरप्युपनयवचनमवश्यमेवापरिहार्यमनुमेयप्रतिपत्तये, दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति नान्यथेत्यतो यद्यपि पदाधर्मवचनेन हेतुसंबन्धमात्रमुपपादितं तथाप्यत्र नाहप्रान्त दर्शितशक्तिधर्मः स तस्मिन्धर्मिणि तथाविधो हेतुः स्यान्न वेत्यसिद्धाशङ्काशमनमुपनयवचनमन्तरेण न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति । स्वप्रतीत्यनुसरणेन च वाक्यरचनायाः स्थितत्वात्क्रमोऽपि यथोक्त उपयुज्यते, अत एव च यत्कृतकं तदनित्यं दृष्टमित्यभिधानमनुपपन्नमनवगते धर्मिणि तद्वर्तिनि च हेतौ प्रथममेव व्याप्तिस्मरणासंभवेन तद्वचनायोगात्, तदिदमवयवविपर्या सवचनमप्राप्तकालनिग्रहस्थानमुपदेदयामः अपि च 'यत्कृतकं तदनित्यं दृष्टुं कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यमिति वदता भवता कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यमिति इतीदमुपनयवचनमनुज्ञातं कृतकत्वादिति पक्षधर्मवचनं तु निह्नुतम्, "कृतकच शब्द इत्येतदेव हेतुवचनमिति चेत् "न प्रयोजकस्य पञ्चम्यादिनिर्देशार्हत्वादिति यत्किंचिदेतत् यदप्युच्यते "विदुषां वाच्यो हे तुरेव केवल” इति, तदप्यचारु, विद्वद्भिर्विद्वत्त्वादेव हेतोरपि प्रज्ञानात्, अपूर्वा इमे विद्वांसो ये प्रतिज्ञावयव चतुष्टयस्यार्थ जानम्ति हेतुवचनस्य न विदन्तीति, तस्मात्पराशयस्य सर्वथा दुर्बोधत्वात्पूर्वोक्तेनैव क्रमेण स्वानुभवसाक्षिकेण वा क्यरचनां कृत्वा परः प्रत्याय्य इति ।।
१४२
"
हेत्व पदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ( १।१।३९ ) हेतुधर्मिणि निर्ज्ञातशक्तिः साध्ये धमिण्यपदिश्यतेऽनेनेति हेत्वपदेश उप