SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ अवयवप्रकरणम् | १४३ नयः, तस्माद्धेत्वपदेशात्प्रवृत्तं प्रतिज्ञायाः पुनर्वचनं निगमनं, निगम्यन्तेऽनेन पूर्वो क्ता अवयवा एकत्र साध्येऽर्थे समर्थ्यन्ते नियोज्यन्ते इति निगमनम् - तस्मास्कृतकत्वादनित्यः शब्द इति, तदिदं निगमनं साधर्म्यवैधम्र्म्यभेदेन हेतोर्हष्टान्तस्य च तदपेक्षिणश्च तथा न तथेत्युपनयस्य द्वैविध्येऽपि प्रतिज्ञावचनवत्तुल्यमेव भवति । प्रतिज्ञावयवाक्षेपः । " "ननु प्रतिज्ञावचनमेव तावदसाधनाङ्गवचनत्वादपार्थकम् तस्या एव पुनर्वचनं निगमनमसाधनाङ्गवचनत्वादपार्थकम्, तस्या एव तु पुनर्वचनं निगमनमधुना सफलं भविष्यतीति केयं कथा, प्रतिज्ञायाः पुनर्वचनमिति च न वाचको प्रन्थः साध्यनिर्देशो हि प्रतिज्ञा सिद्धनिर्देशस्तु निगमनमिति, वाचके वा प्रन्थे पौनरुक्त्यादेव निगमनस्य नैष्फल्यम्, स्वप्रतिपत्तौ च परामर्शज्ञानानन्तरं साध्यावगतिरेव भवन्ती दृश्यन्ते सा परस्याप्युपनयवचनश्रवसमनन्तरमुपजायत एवेति किं तदुक्त्या प्रयोजनम्" । उक्ताक्षेप समाधिः । उच्यते-प्रतिज्ञायास्तावत्साफल्यं समर्थितमेव तस्याश्चेदं पुनर्वचनं सिद्धसाज्यभेदे सत्यपि धर्मिधर्मनिर्देशमात्र मास्यादुच्यते, सिद्धसाध्यभेदादेव च न पौनरुक्त्यकृतमसाफल्यं स्वप्रतिपत्तिसमये च परामर्शज्ञानानन्तरं साध्यबुद्धिरुत्पन्ना सा परस्मै कथ्यमाना न निष्प्रयोजना भवति, तस्माद्धेतारिदं साध्यमहमज्ञासिषं यथा । तथा त्वमपि जानीहि मा स्म विघ्नोऽत्र ते भवेत् ॥ एवमुक्ते संशयानस्य संशय शाम्यति विपर्यस्तमतेश्व विपर्ययस्तदर्थश्च परार्थानुमानोपन्यासश्रमस्तदिदं विपरीतप्रसङ्गनिषेधार्थं निगमनमाहुः । ये तु यथाश्रुतसाध्यनिर्देशात्मक प्रतिज्ञापुनर्वचनसमर्थनलोभादपि प्रतिज्ञायाः सिद्धिमबुध्यमाना असाधारणशङ्काव्यवच्छेदाय निगमनवचनमिच्छन्ति, ते सम्यगभ्ययुः, असाधारणाशङ्कायाः दृष्टान्तवचनेनैव निरस्तत्वात्, विशेषस्य हि ह ेतुत्वशङ्कायामसाधारणशङ्का स्याद्यत्कृत कं तदनित्यमिति दृष्टान्तवचसा सामान्यस्य हेतुत्वे कथिते कथमसाधारणत्वमाशङ्क्येत, यदि पुनरुपनयवचनेन साध्ये धर्मिणि हेतोरुपसंहारादसाधारणत्वमाशङ्कयेत तत्पुनर्दृष्टान्तधर्मिवृत्तित्वमस्य दर्शयितव्यम्, तस्मिन्दर्शिते पुनस्तद्वृत्तित्वाद्धर्मिण्य सिद्धत्वमाशङ्कनीयं पुनस्तद्व्यावृत्तये धर्मिणि हेतोरुपसंहारो विधेय इत्येवमसाधारणाशङ्काव्युदासाय प्रयोगः किन्तु पूर्वरीत्येवेति, तस्माद्विवक्षितेऽर्थे यथोदिते क्रमनिवेशिनोऽवयवान् एकत्र संघटयितुं निगमनवचनं प्रयोक्तव्यम् ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy