________________
१४४
न्यायमअर्याम्
अवयवेषु प्रमाणभिसंप्लवः । त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पञ्चावयवा यथासम्भवमागमादिप्रमा. णानुगृहीताः परस्पारनुषक्ताश्च स्वार्थ साधयन्ति, तत्र मुख्यया वृत्त्या प्रतिपाद्य. नानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते प्रपञ्चाय तु प्रमाणान्तरानुग्रह एषामुच्यते, प्रतिज्ञायास्तावदागमोऽनुग्राहक उपेयते उपदेशस्वभावत्वात् , अनित्यः शब्द इत्युक्त्वा त्वेवंविधे विषये ऋषिवदस्वतन्त्रत्वादनुमानमुपदिशन्ति, प्रतिज्ञावचनं तु तच्छायानुपातित्वाच्छब्दप्रामाण्यसिद्धयर्थे वा शास्त्रे तत्प्रतिज्ञायाः शब्दवि. षयत्वादागमानुगृहीतमुच्यते, हेतुवचनमनुमानेनानुगृह्यते, उदाहणं तु प्रत्यक्षेण तन्मूलत्वाद्वयाप्तिपरिच्छेदस्य यथागौस्तथागवय इति च यथा घटस्तथा शब्द इत्यनया च्छाययोपमानकरणभूतवनेचरादिवचनसहशत्वादुपमानमुपनयस्यानुप्राह. कमभिधीयते, निगमनस्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात्सर्वप्रमाणानु. ग्राह्यतैवेतरेतरानुषक्तत्वात् , प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्व प्रयोक्तव्या अनित्यः शब्द इति, ततो हेतुं परो जिज्ञासत इति हेतुवचनमुच्चार्यते कृतकत्वादिति, हेतौ श्रुते कास्य व्याप्तिरवधृतेति दर्शयितुमुदाहरणमुच्यते यत् कृतकं तदनित्यं दृष्टं यथा घट इति, एवमुक्ते किमीहशो निर्मातशक्तिरेष हेतुः साध्यधर्मिणि भवेन्न वेत्यसिद्धताशङ्कामपाकर्तुमुपनयः प्रसज्यते, ततोऽमुना क्र. मेण तथापि साध्यप्रतीतिर्भवत्विति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं निगमनमभिधीयते, अन्यतममवयवमन्तरेण सकलमिदमनुषक्तार्थवाक्यं स्यादिति पञ्चावयवमेव यथोपदृष्टक्रमकं वाक्यं प्रयोक्तव्यम् ।
इत्यारब्धोपकारास्तदनुगुणफलैरागमादिप्रमाणेरन्योन्यापेक्षिणोऽमी नियतमवयवाः साधयन्त्यर्थजातम् । यश्चैतेषां प्रमेये वचसि च चतुरस्तस्य जातिप्रयोगप्रायः शक्यो न पक्षः क्षापयितुमिति हि व्याहरबृत्तिकारः ॥
इति भट्टजयन्तस्य कृत न्यायमचर्या दशममान्हिकम् अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तकः ॥ (१।१४०) ___ अविज्ञाततत्त्वेऽर्थे इति सामानाधिकरण्यनिर्देशादर्थ एवान्यपदार्थों न पुरुषः, पुरुषो हि षष्ठ्या निरदेक्ष्यत अविज्ञातं तत्त्वमस्येति, तत्त्वपदीपादानेन धर्मिणः सामान्यधर्ममात्रविशिष्टस्य विज्ञातत्वं सूचयति, कारणोपपत्तित इति संशयज्ञानोल्लिख्यमानपक्षद्वयान्यतरपक्षोत्थापनानुकूलकारणावलोकनं त. त्वस्योत्थापकमाह, अत एवाविज्ञाततत्त्वेऽथे भवन्तावपि बुभुत्साविमर्शों न तर्कतां प्राप्नुतः, तत्त्वज्ञानार्थमिति साक्षात्प्रमाणतामस्य निरस्यति, प्रमाणा. नुग्रहं तु विशेषपरिशोधनद्वारेण विधत्तत्त्वज्ञानाय कल्पते, तर्क ऊह इति