________________
तर्कप्रकरणम् । पर्यायोपादानस्य प्रयोजनं वक्ष्यामः, तेनायं सूत्रार्थः-अविज्ञाततत्त्वे सामान्यतो ज्ञाते धर्मिण्येकपक्षानुकूलकारणदर्शनात्तस्मिन् सम्भावनाप्रत्ययो भवितव्य. तावभासस्तदितरपक्षशैथिल्यापादने तद्ग्राहकप्रमाणमनुगृह्य तान्सुखं प्रवर्तयस्तत्त्वज्ञानार्थमूहस्तर्क इति, यथा बाह्यकेलिप्रदेशादावूर्ध्वस्वविशिष्टधर्मिदर्शना. त्पुरुषेणानेन भवितव्यमिति प्रत्ययः । __ "ननु तत्त्वज्ञानार्थमित्युक्ते सति सामर्थ्यादविज्ञाततत्त्वता लभ्यते एवेति किमर्थ स्वकण्ठेन पुनरनूद्यते ?”
बाढं किंतु क्वचिद्विषये ज्ञाततत्त्वेऽपि पूर्वतणावमृष्ट सत्युत्तरकालं तर्कि तोमयाऽयमर्थ इति स्मर्यमाणतर्कविशेषणतया गृह्यमाणो विशेषणीभूतस्तकस्त. त्वज्ञानार्थो भवतीति तद्वयदासाय पुनरविज्ञाततत्त्वग्रहणम् , मार्गशोधनद्वारेण तर्कस्य तत्त्वज्ञानार्थःवमिह विवक्षितं तच्चाविज्ञाततत्त्वेऽर्थे सम्भवतीति ।।
"ननु नैव संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययः कश्चिदस्ति, तथा हि यदि तावदनवगतविशेषस्य भवत्यसौ प्रत्ययस्तहि संशय एव भवेदवगतविशेषस्य भवन्निर्णयतामेव स्पृशेत् , पुरुष एवेत्येवकारार्थाद्युन्मेषरहितोऽपि प्रत्ययो निर्णयो न न भवितुमर्हति, तुरगपरिसरणसमुचितदेशदर्शनमपि यदि स्थाणुपते स्थगयितुमलमिति मन्यसे तत्करचरणादिनरविशेषदर्शनवत्तन्निर्णयकारणमेव स्यात् , अथ तस्यामपि तरगविहरणभुवि निखनति कश्चन स्थाणु मिति शङ्कसे, यद्येवं स्थाणुपक्षानपायात्पुनः संशय एत्र स्यादिति न तृतीयः पतः समस्तीति लक्षणभावात्कस्येदं लक्षणमिति ?"
उच्यते-न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवेदनीयाः प्रतीतयो वरीतुं शक्याः, तथा हि-स्थाणवों पुरुषो वेति प्रतोतिरेका पुरुष एवायमित्यन्या पुरुषेणानेन भवितव्यमिति मध्यवर्तिनी तृतीया संभावनाप्रतीतिः स्वहृदयसाक्षिकैव,
साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः । निणये वितरः पक्षः स्पृश्यते न मनागपि ॥
तकस्त्वेकतरं पक्षं विभात्युत्थापयन्निव । ननु सम्भावनाबीजवाजिवाहनदर्शनाद्वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि सम्भावनामात्रमुपजनयितुमलं न तु शिरःपाण्यादिविशेषदर्शनवत्सर्वात्मना स्थाणु. पक्षापसरणेन पुरुषनिणयाय प्रभवत्यतोऽयमगृहीतविशेषस्यैव भवति प्रत्ययो न तु संशयः एकतरपक्षानुकूलकारणोपपत्त्या जायमानत्वात् , कथं पुनः पाणिपा. दादिपुरुषविशेषवदश्ववाहनदेशविशेषो विशेष कार्य न कुर्यात् करेणैवास्थाणुपतोत्सारणान्निर्णय एवायमिति कस्यैष पर्यनुयोगः, यथा हि शिरःपाण्यादिदशने सति पुरुषनिर्णयो भवति न तथा तुरगवहनदर्शने सति, अननुयोज्याश्च