________________
न्यायमअर्याम्
जयाम्
पदार्था एवं भवतैवं मा भूतेति, यथा च देशान्तरे स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमावपि तु शिथिलोभवति संभवत्प्रमादत्वाञ्च न स. र्वात्मना निवर्तते।
ननु यदि न निवर्तते तहि स्पर्धतां मा वा स्पर्धिष्ट स्थितस्तावत्स्थाणुपक्ष इति संशय एवायमिति"
मैवम् स्थाणुपक्षः सर्वात्मना (न) निवर्तते नप्यास्ते एवमेवायं त्रिशङ्कुरिवालम्बमानः प्रत्ययान्तरनिवृत्तये प्रभवतीति तथा प्रत्ययानुभवादेव परिकल्प्यते, वाहकेलिप्रदेशदर्शने हि यया पुरुषविशेषाः स्मरणपथमवतरन्ति न तथा स्थाणु. विशेषाः उभयविशेषम्मरणजन्मा च संशय इति सोऽयं वाहकेलिप्रदेशविशेष:शिथिलयति स्थाणुप न सर्वात्मनोच्छिनत्तीति तदर्शनात्कृतकतत्कारणप्रत्यय इति न तद्धदयंगमं तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तर्क इति । अथ वा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययो द्रष्ट. व्यः स उदाहरणं भविष्यति । ____“उह इति पर्यायाभिधाने किं प्रयोजनं" लक्षणप्रतिपादनमेव, तदेव हि तर्कस्य लक्षणं यदूहरूपत्वं इतरस्तु सूत्रे कारणविशेषाय फलनिर्देशः, कारणोपपत्तित इति कारणनिर्देशः, अविज्ञाततत्त्वेऽर्थे इति विषयनिर्देशः, तत्त्वज्ञानार्थ इति फलनिर्देशः। अपि च तर्कशब्दं के चिदनुमाने प्रयुञ्जते, यथा स्मृतिकाराः पठन्ति- .
आषं धर्मोपदेशं च वेदशास्त्राविरोधिना । - यस्तणानुसंधत्ते स धर्म वेद नेतरः ।। इति ॥
तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम् , उहोऽत्र तर्क उच्यते नानु: मानं तत्त्वज्ञानार्थताऽप्यस्य प्रमाणानुप्राहकत्वेन न साक्षात् , तथैव चाथै साध. यितुमेष वादे प्रयुज्यते हृदयशुद्धिप्रकाशनार्थम् ।
कापिलास्तु बुद्धिधर्ममूहमाहुः, स तसिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूपप्रकृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव निरस्तः ।
जैमिनीयास्तु अवते-युक्तया प्रयोगनिरूपणमूह इति, इह हि किंचिदुपदिष्टदृष्टादृष्टस्वभावसकलेतिकर्तव्यताकलापं कर्म भवति यथाऽऽग्नेयोऽष्टाकपाल इति दर्शपूर्णमासकाण्डे पठितम् , व चित्पुनः प्रधानकर्ममात्रमुपदिश्यते इतिकर्तव्यता तु काचन नाम्नायते, यथा-'सौर्य चळं निर्वपेद ब्रह्मवर्चसकाम' इति, तत्र विचायते-किमितिकर्तव्यताविरहितयथाश्रतप्र. धानमात्रसंपादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तदपि सेतिकर्तव्यताकं प्रधानमनुष्ठेयमिति, तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते निरङ्गस्य प्रधानत्याननुष्ठेयत्वाद्विध्यन्ताधिकरणसिद्धान्तन्यायेन प्राकृतवद्वैकृतं कर्म कर्तव्य