________________
तर्कप्रकरणम् ।
१४७ मिति सेतिकर्तव्यताकं तदनुष्ठीयते, एवं सामान्यातिदेशे स्थिते सति कम्य वैकृ. तस्य कर्मणः कुतः प्रकृतेर्धर्मा अधिगन्तव्या इति चिन्तायां द्रव्यदेवतादिचोदनासारूप्यपालोचनोपनतहृदयसन्निधानप्राकृतकर्मविशेषसम्बन्धिन एव तत्र धर्मा भवितुमर्हन्तीति स्थापिते युगपदुपनिपतदनर्गलचोदकव्यापारोपनीतनिखि. लाखण्डमण्डलविध्यन्तकाण्डाधिगम्यधर्मसंबन्धप्राप्तौ सत्यां ते धर्माः कथं प्रयोक्तव्या इति युक्तया प्रयोगनिरूपणमूह उच्यते, येनेत्थं प्रयोक्तव्या इति धर्मा व्यवस्थाप्यन्ते, स च त्रिविधो मन्त्रसामसंस्कारविषयः, मन्त्रविषयस्तावद्यथाऽत्रैव सौर्ये चरौ प्रकृतिवद्भावेनाग्नेयादग्नये त्वा जुष्टं निर्वपामीति निर्वापमन्त्रः प्राप्तः कथं प्रयोक्तव्य इति विचारणायामुच्चारणमात्रेण मन्त्राणामनुपयोगात्प्रयोगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुपयोगस्य व्यवस्थितत्वादिहाविकृत एवायममये जुष्टमिति प्रयुज्यमानो मन्त्रः प्रयोगसमवायिनोऽर्थस्याप्रकाशनादस. गतो भवेत् सर्वात्मना चोत्सृज्यमानो मन्त्रो मन्त्रप्रकाशितकमोननुष्ठानान्न प्रकृ. तिवत्कृतं भवेदित्यग्निपदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्र ऊहेनेत्थं प्रयोक्तव्य इति गम्यते सूयोंय त्वा जुष्टं निवपामीति । __ "ननुहप्रवरनामधेयानाममन्त्रत्वादित्थमपि न मन्त्रेण स्मृतं कर्म कृतं स्यात्" नैतत्-एकदेशविकृतमनन्यवद्भवतीति न्यायात् । सामविषयस्तु गीतयः सामानीति स्थिते व चित्कर्मणि 'रथन्तरमुत्तरयोर्गायति, बृहदुत्तरयोर्गायतीति श्रतः सा बृहद्रथन्तरगीतिर्यस्यामृचि योनिभूतायामुत्थिता ततोऽन्यस्यामपि प्रयुज्यते, तागक्षरापायेऽपि च सामगीतिऋगन्तराक्षरेष्वपि प्रत्यभिज्ञायते रथन्तरमनेन श्लोकमिति व्यवहारदर्शनात् । संस्कारविषयः खल्वपि प्रकृतौ प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्तीति संस्कारश्चोदितः कचिच्चविकृतौ श्रूयते-'नखनिभिन्नश्चर्भवतीति, तत्रोलुखलमुसलयोः प्रकृतौ पुरोडा. शापेक्षिततुषकणविप्रमोकपूर्वकतण्डुलीभावसम्पादनद्वारेणोपयोगाद्विकृतावपि त. स्कार्यापन्नानां नखानां प्रोक्षणाख्यः संस्कारः क्रियते इति, सोऽयं त्रिविध ऊहः । __ केचित्त पञ्चविधमूहमाचक्षते 'धर्मस्यार्थकृतत्वाद् द्रव्यगुणसंस्कारव्यतिक्रमप्रतिषेधे चोदनानुबन्धः समवायादि'ति(९।२।४७जै०) सूत्रमनुसरन्तः, एतत्तु प्रतत्यमानमतिप्रसङ्गमावहति त्रिविधमेव चोहं याज्ञिका अनुमन्यन्ते इति ।
अत्र वदन्ति-सोऽयमूहशब्दः श्रोत्रियैरनुमाने प्रयुक्तो यथा स्मृतिकारैः स्तत्र तर्कशब्दो यस्तकेंणानुसन्धत्त इति, तथा हि वैकृतं कर्म धर्मि तत्सम वेतार्थप्रकाशकमन्त्रप्रयोगनिर्वय॑मिति साध्यो धर्मः कर्मत्वात्प्राकृतकर्मवत् , मन्त्रो वा तत्समवेतप्रकाशक: प्रयोज्यो मन्त्रत्वात्प्राकृतमन्त्रवदिति । प्राकृ. तेषु च कर्मसु तथा तथा व्याप्तिग्रहणात्सर्वोऽयमनुमानमार्ग एव, नखाः प्रोक्षणीयाः प्रयोगोपयोगितण्डुलनिर्वर्तकत्वादुलूखलमुसलवदिति, सामसु तु स्पष्ट