________________
१४८
न्यायमञ्जर्याम् मेव वचनमस्ति रथन्तरमुत्तरयोर्गायतीति तदभावेऽपि मन्त्रसंस्कारसमानयोगौमत्वमेव । ___ अपि च शब्दपृष्ठस्थितन्याये सहस्रव्युत्पादनात्मके मीमांसाशास्त्रे तन्न्याय लभ्योऽर्थश्चोदनार्थ एवेति स्थापितम् , अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थता मा निर्वतिष्टेति सोऽयमूहः शब्द एवान्त वणीयः प्रमाणान्तरगोचरो वा धर्मः स्यात् , न्यायविशेषात्मकस्तूहो नानुमोनादर्थान्तरं स्यात् , अनय इत्यस्य स्थाने सूर्यायेतिपदस्य प्रयोग ऊहस्य फलं नाहः, इह तु पूर्वोक्तया नीत्या प्रमा. णव्यतिरिक्त उह उपपादितः, श्रोत्रियास्तु तदनभिज्ञतया न्याये न्यायफले वो. हशब्दमुपचरितवन्त इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः ।
तदेष मीमांसककल्प्यमानो नोहः प्रमाणव्यतिरेकमेति । प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितोऽत्र शास्त्रे ॥
इति (८)तर्कपदार्थः। - तर्कानन्तरं निर्णयो भवति पठितश्चेति स लक्ष्यतेविमृष्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ।। अ०१ आ०१ सू०४१ ___ अवधारणमपि तथा स्यादित्यर्थग्रहणम् , इन्द्रियादिजनितमपि तदवधारणमस्त्येव न्यायोपरमहेतोस्तु निर्णयस्योद्देशात्स एवानुमानजन्यो लक्षणीय इहेति पक्षप्रतिपक्षाभ्यामित्युक्तम , ___ एकाधिकरणौ धौ तुल्यकालौ विरोधिनौ ।
पृथक्परिग्रहौ पक्षप्रतिपक्षावुदाहृतौ ।। _ "न हिताभ्यां निणेयः तयोरन्यतरविषयो हि भवति न तत्करणक एवेति" सत्यम् , इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ साधनतदुपालम्भो लक्ष्येते, तौ च तस्मिन्करणमेव । “किमर्थं पुनलेक्षणा ऽऽश्रीयते साधनेापलम्भाभ्यामेवेति कर्थ न सूत्रितम" एवमभिधीयमाने पुनस्तयोविषयो मृग्यः लक्षणाप्रयोगे तु सोऽप्य. वगतो भवेत्, मुख्यमभिधाय तदितरो लक्ष्यते। "भवत्वेवं द्वाभ्यां कथं तु निर्णयः एकमेव हि साधनं निर्णयाय कल्पते" एवमेतत् , न द्वितीयमपि साधनं निर्णयनिमित्तमाचक्ष्महे किन्तु तदुपालम्भं साधनं चः साधनोपालम्भश्च साध. नोपालम्भौ ताभ्यां निर्णयः।
एतदुक्तं भवति-स्वपक्षं प्रमाता निर्णयतीति न खल्वेवं न जाने च दूष. णमुत्प्रेक्षमाणः स्वपक्षे साधनमधिगच्छन्परपक्षसाधने च दूषणमुत्प्रेक्षमाणः प्रमाता निर्णयतीति किं तूपालम्भस्य क इव निर्णयजन्मनि व्यापारः स हि परपक्षसाधनमवच्छिन्द्यादिति, अस्त्वेतत् तदुच्छेदद्वारेण अपि तु स्वपक्षसाधनमहिमानमाविष्कुर्वन्कल्पत एव निर्णयायेति युक्तो द्वयोरपि करणभावः।
"नन्विदानीमर्थग्रहणमनर्थकमेवंविधसाधनाधीनजन्मा हि न निर्णयाभासः