________________
निर्णयप्रकरणम् ।
१४९ सम्भवति, साधनोपालम्भलक्षणार्थावपि च पक्षप्रतिपक्षशब्दो विषयमभिवदितुं ननु शक्नुत इस्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ?". ___ उच्यते-पक्षमतिपक्षयोस्तु द्वयोरन्यतरत्रार्थेऽवधारणं भवति नेभियत्र, स एव च परमार्थतोऽर्थ इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्थपदोपादानम् । लक्ष्यमाणसाधनोपालम्भनिष्टत्वात्तु पक्षप्रतिपक्षशब्दयोर्विषयनिर्देशार्थमर्थपदमित्येके । “विमृश्येति किमर्थ" वस्तुस्वरूपकथनार्थमेव, अनुमानकरणको हि निर्णय इह लक्ष्यते इत्युक्तम् , अनुमानं च संशयविषये प्रवर्तते इति तर्कानन्तरमप्यनेनैवाशयेनास्योपादानम् , संशयादनन्तरं तर्कस्तांदूर्ध्व च निर्णयो दृष्टः प्रवर्तमानोऽतस्स तत्पूर्वक उच्यते।
निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते ।
अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ।। "भवत्वेवमिदं तु चिन्त्यता-क नियमः किं विमर्श किं पक्षप्रतिपक्षयोः किं निर्णय इति, त्रये ऽपि च नोपपद्यते इति, न विमृष्यैव निर्णयः अविमृष्यापि भावात् , न पक्षप्रतिपक्षाभ्यामवेन्द्रियादेरपि तदुत्पादात , न निर्णय एव तर्कस्यापि क चिदनिवृत्ते." उक्तमत्रोद्देशसूत्रे तत्त्वज्ञानपदोपादानात्प्रमाणपदेन च तत्फलाक्षेपान्न निर्णयमात्रोद्दिष्टेन किमपि प्रयोजनं विशिष्टस्तु निर्णयो लक्षणत्वेन विवक्षितः। __ परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः ।
नियमत्रयमप्येतत्तस्मिन्न हि न युज्यते ।। न हि (न) विमृष्यैव भवन्ति विमर्शपूर्वकत्वात्परीक्षायाः, अनुमानं च सन्दिग्धे विषये प्रवर्तते इति प्रायेण तद्व्यवहारः।
यद्यपि क्वचिदसन्दिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमनलानथिता. यामतकितोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पनमिव, तथाऽपि वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः, प्रकृतश्च निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुमन्यथा न्यायानुपरमादिति, शास्त्रे तु विनापि संशयादस्ति निर्णयः ।
यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशातिदेशाभ्यामभ्यधायि, तथापि नासौ शास्त्रीयो निर्णयः परीक्षाकार्यत्वात् , यस्तु शा. स्त्रत एव कचिद्विषयनिर्णयः स विमर्शवर्जमुत्पद्यते, वादे ऽपि विमर्शरहिते भवति निर्णयः, उभौ निश्चितौ वादं कुरुतः सन्दिग्धस्य तत्रानधिकारात् , "कथं तोष प्रवादः संशयच्छेदो वादस्य फलमिति? ” प्रथममुभयोरपि निश्चि. तयोर्वादप्रवृत्तावन्तराले बलादापतति युक्तिद्वयोपनिपातवतः संशय इति वस्तु. निर्णयावसानत्वाद्वादस्य संशयच्छेदफलत्वमाचक्षते।