________________
१५०
न्यायमञ्जयाम् यद्यप्यनिश्चितमतिः कुरुते न वादं श्रुत्वा तथापि परकीयनयप्रवेशम् । अन्तर्मतद्वयबलाबलचिन्तनेन संशय्य निर्णयति नूनमसौ स्वपक्षम् ।।
इति (९)निर्णयपदार्थः । न्यायपरीद्वा क्षारकवस्तुविचारयोग्यास्तिस्रः कथा वादिना भवन्ति-'वादो जल्पो वितण्डेति, तत्र वादस्तावदुच्यतेप्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः प.
क्षपतिपक्षपरिग्रहो वादः ॥ अ. १ आ. २ मू. १ । पक्षप्रतिपक्षौ व्याख्यातौ तयोः परिग्रहो ऽभ्युपगमो नियमः , एको वक्ति नित्यः शब्दः अपरस्त्वनित्यः शब्दः इत्योह-सोऽयं पक्षप्रतिपक्षपरिग्रहो :वादः, एतच्च रूपं कथात्रये ऽपि साधारणमिति विशेषमाह-प्रमाणतर्कसाधनोपालम्भ इति, प्रमाणैस्तर्केण च साधनं साधनोपालम्भश्वास्मिन्क्रियते इति प्रमाणतर्क. साधनोपालम्भः, न त्वीदृशी वितण्डा तस्याः प्रतिपक्षसाधनोपन्यासशून्यस्व. भावत्वात् ।
_ "ननु प्रत्यक्षादेः प्रमाणस्य परप्रतीत्यनुपायत्वान्न तेन वादे साधनोपालम्भौ शक्यक्रियौ, तर्कस्य तु प्रतीतिसाधनत्वमपि तावन्न सम्भवति सम्भावनाप्रत्ययस्वभावत्वात्किमुत परप्रत्यायनाङ्गतेति नतरां तस्य साधनोपालम्म. हेतुत्वम्" सत्यमेवमिह तु न प्रमाणशब्देन प्रत्यक्षादेरनुमानमपि तुःप्रमाणमूला अवयवा उच्यन्ते तैश्च सिद्ध्युपालब्धी क्रियेते , एवं तर्कस्य तु स्वतः साधनो. पालम्भकरणकोशलशून्यात्मनो ऽपि प्रमाणानुग्राहकत्वात्पारम्पयेण तद्धेतो.
राशयशुद्धिप्रदर्शनार्थमुपादानम् , _ "यद्येवं प्रमाणपदेनैव तन्मूलावयवप्रतिपादनात्पञ्चायवोपपन्नग्रहणमतिरिच्यते"
तत्र केचिदाचक्षते-प्रमाणतर्कसाधनोपालम्भ इति वादलक्षणे छलजा. तिनिग्रहस्थानसाधनोपालम्भ इति च जल्पलक्षणे श्रवणाद्वादे सर्वात्मना छला. ' दिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्युज्ञानार्थ पञ्चावयवोपपन्नग्रहणम् , अनेन च 'हीनमन्यतमेनाप्यवयवेन न्यूनम् । हेतूदाहरणाधिकमधिकमिति न्यूनाधिकयोरुद्भावनमनुज्ञायते, सिद्धान्ताविरुद्धग्रहणेनापि 'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध' इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातमित्येवं वादे त्रीणि निग्रहस्थानान्युभावनीयानि ।
अन्ये वदन्ति-"विरुद्ध एव हेत्वाभासो वादे चोद्यते नानकान्तिकादि. रि"ति, कथमेतद् युज्यते 'निग्रहस्थानेभ्यः पृथगुपदिष्टा हेत्वाभासा वादे चोद. नीया भविष्यन्तीति भाष्यकारवचनात्प्रमाणपदेन च तन्मूलावयवाक्षेपात्प्रमाणा