________________
वादप्रकरणम् ।
१५१ भासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि , तत्र सिद्धमिति । "सि. द्वान्ताविरुद्धग्रहणेन सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गो ऽपसिद्धान्त इत्यप. सिद्धान्ताख्यनिग्रहस्थानानि वादे उद्भाव्यन्त इति" तदनुपपन्नं न हि त्रीणि वा अष्टो वा वादे निग्रहस्थानानि चोदनीयानीति चोदना वैदिकी.राजशासनं वा वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगार्हम् , अयं तु विशेषः-जल्पे कस्यांचिदवस्थायां बुद्धिपूर्वकमपि छलादिप्रयोगः क्रियते वादे तु वृथा तेषां प्रयोगः, भ्रान्त्या तु कथंचित्प्रयुक्तानामवश्यमुद्भावनमनुद्भावने वस्तुपरिशुद्धर. भावात् ।
"कथं तीदं पदद्वयं सिद्धान्ताविरुद्वः पञ्चावयवोपपन्न इति" अपसिद्धा. न्तादिसम्यग्दूषणदिक्प्रदर्शनेनैवम्प्रकारवस्तुशुद्धयनुगुणनिग्रहस्थानजाताद्यनुज्ञा. नार्थमेवेत्यभियुक्ताः, अप्रतिभाविक्षेपादयो हि न वादे पराजयहेतवः क्षणा. न्तरेणाप्यागत्यानुस्मृत्य च साधनमुपालम्भं वा तत्र वदन्न पराजीयते, प्रतिज्ञा. हान्यादि तु सम्यक्पराजयकारणमखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति ।
"नन्विदानी प्रमाणतग्रहणमपार्थकं पञ्चावयवोपपन्नपदेनैव प्रमाणमूलावयवोपदेशाद्वस्तुपरिशुद्धयनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च किमिव नो. क्तम्" न अभिप्राये नैर्मल्यनिवेदनद्वारकवादजल्पविवेकप्रतिपादनार्थत्वात् , स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितमाशयशुद्धिमुपद
शयितुमत्र वस्तुनि मम प्रथमं तर्क इत्थं प्रवृत्त आसीत्ततः प्रमाणमिदं प्रवृत्तमित्येवमपि तत्र वक्तव्यमत एव चान्यतरपक्षनिर्णयावसान एव भवति वादः, न जल्पवदलीकदूषणाडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धिपूर्वमाभासानामप्रयोग इति निर्मत्सरकथात्वमस्योक्तमित्यकलुषाकूतकथनाय प्रमाणतकपदम् । .
अपि च साधनोपालम्भव्यतिषङ्गप्रतिपादनमपि तस्य फलमुभावपि परस्परमनुबन्धेन वादिभ्यां परीक्ष्यमाणो पक्षप्रतिपक्षौ वादतां प्रयोजयतो न तु स्वगृहे शास्त्र वा विविच्यमानौ, प्रमाणैरेव जल्पे व्यवहार इति नियमशङ्कानिरसनमपि तत्पदोपादानप्रयोजनमुक्तमन्यैरिपि कृतमतिविस्तरेण सर्वथा वादलक्षणं सर्व सुस्थम् ।
वादं च निर्णयफलार्थिभिरेव शिष्यसब्रह्मचारिगुरुभिः सह वीतरागैः । न ख्यातिलाभरभसप्रतिवर्धमानस्पर्धानुबन्धविधुरात्मभिरारभेत ।।
इति (१०)वादपदार्थः ॥ यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥ .
गौतमसू. अ. १ आ. १ सू. २ ॥