________________
न्यायमअर्याम् यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्कमानाः के चन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते, इयतस्तु पूर्वसूत्रानुवृत्त्या. ऽपि सिद्धर्मन्दफलमेव यथोक्तोपपन्नवचनं भवेदिति समस्तातिदेश एव वरम् ,
न च तत्रापि वादजल्पयोः साम्यं गम्यमानार्थम् , अतिदेशाच्छौत एवार्थों ऽतिदिश्यते न गम्यमानः तत्कृत एव च तयोर्भेद', तया च प्रमाणतर्क साधनोपा. लम्भ इत्यत्र गम्यमानोऽर्थोऽभिप्रायनियमः स नातिदिश्यते, सिद्वान्ताविरुद्वः पञ्चावयवोपपन्न इत्यत्रापि बुद्धिपूर्वजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपो गम्यमानोऽर्थः सोऽपि नातिदिश्यत इति कुतस्तयोरविवेकः, अत एव च बुद्धिः पूर्वक प्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् । “भवत्वेवं छलादीनां त्वसदुत्तरत्वात्कथमिव साधनोपालम्भहेतुत्वम् , परपक्षपतिक्षेपद्वारकमिति चेन्नासत्तरत्वेन 'पतिपक्षेऽपि तेषामसामोदेवमपि च साधनग्रहणम. नर्थकमेवेति" सत्यमेवं किन्तु कस्यांचिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्व. ज्ञानरक्षायै तान्यपि व्याप्रियन्ते, यदा जानन्नपि परपक्षकशिमानं स्वपक्षे द्रढिमानं च कचिदवसरे परप्रयुक्त साधने दूषणं सपदि न पश्यति स्वपक्षसाधनं च झगिति न स्मरति तदा छलादिभिरप्युपक्रम्य परमभिभवत्यात्मानं च रक्षतीति । ___ "ननु यदि परश्छलादीनि जानीयात्तेषु चानुरूपमुत्तरमभिदधीत कथं जीयेत प्रत्युत जयत्येव" सत्यं तथाप्येकान्तपराजयाद्वरं सन्देह इति युक्तमेव तत्प्रयोगेण स्फुटाटोपकरणम् । ___ "नन्वीशि प्रयोजनानि जिगीषतो जजस्य जनपदसदसि भवन्ति तस्यापि न निपुणमतिसदसि मुमुक्षोस्तु दरापेतैव कथेयमिति कथमिह मोक्षशास्त्रे जल्पाद्युपदेशः”
नैतदेवम् , मुमुक्षोरपि कचित्प्रसङ्ग तदुपयोगात् , यथोक्तं तत्त्वाध्य. वसायसंरक्षणासीनमनेकशिष्यगणोपास्यमानं रहस्यतत्त्वमुपदिशन्तं शान्त. मानसमाचार्यमनार्यः कश्चिद्विपश्चिदाभासः कुतश्चिदागत्य दुरधिगतकतिपयाक्षरपरिचयजनितगुरुतरगवंगद्गदया गिरा भोस्तपखिन्किमाख्यायते हू. ङ्कारमान्वीक्षिकी सरलमतिप्रियेयं विद्या क्ष वेदाः क्व वेदप्रामाण्यं कात्मज्ञानं कापवर्ग इत्यादि मन्दं विहस्य सहस्यसहसादृष्टमेघ इव प्रकटितकाण्ड. दण्डकाशनितम्बवित्रासिताश्रममृगवर्गमुद्राहयन्नाकुलयति, तदा जगज्जालमि. न्द्रजालपण्डितविलसितमिति जाननप्याशाभ्यो यदि तदुपेक्षते न तिरस्करोति सद्यः सम्यक साधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति तदा तस्मिन् गते तत उत्थाय शिष्यगणा ब्रूयुः कष्टमस्थाने क्लिष्टाः स्मः,
यो ऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः । अद्य त्वागत्य सोऽन्येन पण्डितन पराजितः ।।