________________
वितण्डाप्रकरणम् ।
१५३
तच्छ्रत्वा जन इतरोऽपि सत्पथस्याशैथिल्यात्सपदि तमेव माऽनुयासीत् । तन्नूनं परिभवभूमिकामसह्यां नेतव्यः सदसि स वावदूकपाशः ॥
तद्विघातघटने निरर्गलं जल्पमन्त्रमुपदिष्टवान्मुनिः । आनुषङ्गिकमपि प्रयोजनं तस्य रागिजनतासु वर्णितम् ।।
इति (११)जल्पपदार्थः । स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ अ. १ आ. सू. ३ । स एव यथोक्तलक्षणको जल्पो वितण्डाभवति,"को विशेष इति चेद्" आह. प्रतिपक्षस्थापनाहीन इति , उत्तरपक्षवादी वैतण्डिकः प्रथमवाद्यपसाध्यमानपक्षापेक्षया हस्तिपतिहस्तिन्यायेन प्रतिपक्ष इत्युच्यते तमसावभ्युपगच्छत्येव न तत्र साधनमुपदिशति परपक्षमेवाक्षिपन्नास्ते, "तर्हि साधनाद्विपक्षो ऽपि सोऽस्य नास्त्येवेति प्रतिपक्षहोनेो वितण्डेस्युच्यतां किं स्थापनांग्रहणेन" नाभ्युपगममात्रेण तद्भावात्तमनभ्युपगम्य प्रलपतः कस्तस्य शृणुयात् , औपचारिको वा पर. मतपराकरणरूप एवास्य पक्षस्तस्मिन्हि सति स्वपक्षो हि तस्य सिध्येदिति, परमताक्षेपप्रवणप्रवृत्तश्च बलाद् द्वितीयपक्षवाद्येव वैतण्डिक इति , तदेवं पक्षो ऽस्यास्तीति साधनं तु नास्तीति सम्यक् सूत्रितं सपतिपक्षस्थापनाहोना वितण्डेति।
इत्युदाहृतमिदं कथात्रयं यत्परस्परविविक्तलक्षणम् । स्थूलमप्यनवलेोक्य कथ्यते वाद एक इति शाक्यशिष्यकैः ।।
इति (१२)वितण्डापदार्थः । पक्षधर्मत्वादीनि पञ्च लक्षणानि हेतोरुक्तानि तेषामेकैकापायात्पञ्च हेत्व. भासा भवन्तीति तान् दर्शयितुमाहसव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः ॥
. गौतमसूत्रम् अ. १ आ. २ सू. ४ । अत्र हेत्वाभासश्रुतिरेव निर्वचनसहिता सामान्यलक्षणं बोधयत्यहेतवो हेतुवदाभासन्त इति हेत्वाभासाः, लक्षणैकदेशयोगाच्च हेतुवदाभासनमहतोर. प्युपपद्यते। सकललक्षणाऽपायेपि पञ्चमीनिर्देशादिर्धमहेतुरित्येके, सव्यभिचारादिपदपर्यन्तवर्तिनी तु सैव श्रुतिविभागमवगमयति प्रमाणश्रुतिवदित्युक्तम् , पक्ष. धर्मादिलक्षणानां च क्रमनियमाभावात्साध्यसमविरुद्धसव्यभिचाराततीकाल. प्रकरणसमा हेत्वाभासा इति पाठो नाश्रितः ।
"ननु त्रय एव हेत्वाभासा इति शाक्याः" न प्रत्यक्षागमबाधितस्य सप्र. तिपक्षस्य च हेतोः पूर्वप्रदर्शितत्वात् ।
२०