________________
१५४
न्यायमअर्याम् "नन्वेकस्यैव रूपद्वयवैकल्यात्कथं न षष्ठादयस्तत्प्रभेदाः स्युः, यथा नित्यः श. ब्दश्चाक्षुषत्वादिति, एष हि पक्षे वृत्त्यभावादसिद्ध उच्यतामुत सामान्यादिविप. क्षादप्रच्युतेः सव्यभिचार उत जात्यन्तरमेव ताभ्यामिति"
नैतदेवम्-एक करूपापायनिमित्तभेदपञ्चकप्रतिपादने कृते द्वित्रिरूपापायान्न रूपान्तरमवतरति किन्तु तेषामेव समावेशः स्यात् , अपि च प्रथमगृहीतान्यतमरूपवैकल्यलब्धके हेत्वाभासरूपेऽस्मिन्किं रूपान्तरनिरूपणेनेत्यास्तामेतत् ।
"नन्वप्रयोजको नाम षष्ठो हेत्वाभासः समस्तीति न पुनरपि पञ्चत्वम् ' न तस्यान्यथासिद्ध एवान्तर्भावं वक्ष्यामः, अवान्तरभेदविवक्षायां तु हेत्वाभासानामियत्तानिश्चयो न शक्यक्रियो न च सप्रयोजन इति पञ्चैव हेत्वाभासा इति सिद्धम् ।
सव्यभिचारलक्षणम् । तेषां सव्यभिचारस्तावदुच्यते।
अनैकान्तिकः सव्यभिचारः ।।
गौ० अ० १ आ २ सू० ५ । व्यभिचार एकत्र व्यवस्थाऽनियमः तेन सह वर्तते इति सव्यभिचारो विपक्षादप्रच्युत इत्यर्थः, एकस्मिन्नन्ते भवन्नैकान्तिकः तद्विपर्ययादनकान्तिक इति स एवार्थः, एवमिह लक्ष्यलक्षणपदयोर्यथाकाममभ्युपगमो न प्रत्यक्षादिवद्यवस्थया, सव्यभिचारपदे लक्ष्याभिधायिनि लक्षणवचनमनैकान्तिकपदमनै कान्तिक. पदे तु लक्ष्यवाचिनि सव्यभिचारिपदं लक्षणप्रतिपादकं प्रसिद्धाप्रसिद्धविभागापेक्षया पिककोकिलवद् द्रष्टव्यम्, पिकः कोकिल इत्युक्ते यस्य पिकशब्दार्थः प्र. सिद्धः स ततः कोकिलशब्दार्थमवभोत्स्यते प्रसिद्धकोकिलशब्दार्थश्च पिकश. ब्दार्थमिति । ___ "आह भवत्वेवमिदंतु चिन्त्यताम् अनैकान्तिक इति किमयं पर्यदासः प्रसज्यप्रतिषेधो वा? किं चातः, पर्युदासपक्षे स्वपक्षनियतादेकान्तिकादन्यः स एवानैकान्तिक इति स एवैको हेत्वाभासः स्यादतश्च पञ्चसंख्या विप्रलुप्यतेति, प्र. सज्यप्रतिषेधे त्वैकान्तिकाभावस्य निवृत्तिरूपस्य हेत्वाभासता भवेन लक्ष्य. वेनाभिमतस्य विपक्षवृत्तेहेत्वन्तरस्य प्रमेयत्वादेरिति” । ___ उच्यते-प्रश्न एवायमनुपपन्नः संशयानो हि परं पृच्छति संशयश्चोभयथा दर्शनाद्भवति न च नामपदसंबद्धस्य नो द्वयी वृत्तिईष्टा, अश्राद्धभाजीत्यादी हि भुजिना नन्संबध्यते श्राद्धं न भुत इति न तु नाम्ना श्राद्धेनेति, आख्यातेना पि प्रयोज्यमानः क चित्प्रकरणसामर्थ्यानुरोधात्प्रत्ययार्थसंबन्धमवधूय धात्वर्थ मेव केवलमालिङ्गपर्युदासवृत्तिर्भवति यथा नेक्षेतोद्यन्तमादित्यमिति, 7 तु ना.