________________
हेत्वाभासप्रकरणम् |
म्ना संबध्यमानः क्वचिदपि पर्युदासवृत्तिमुल्लङ्घ्य प्रसज्यप्रतिषेधमात्रतामवलम्बमानो दृश्यते अब्राह्मणादौ सर्वत्र तदन्यावगतिदर्शनादिति कुतस्त्यः संशयः । अथ वा किमनयाऽवान्तरचिन्तया यथापृष्टं प्रकृत एवोत्तरमुच्यते एकस्मिन्ननित्यपक्षो वा नियत ऐकान्तिक एकपक्षवृत्तिरुच्यते ततोऽन्यः पक्षद्वयवृत्तिरनेकात्तिको भवत्येवं न सर्वे हेत्वाभासाः पाद्वयवृत्तय इति न संख्याहानिरतः पर्युदासपक्षे तावन्न दोष, प्रसज्यप्रतिषेधे ऽप्यैकान्तिको न भवति स एवाहेतुरिति न निवृत्तिमात्रपरत्वम्, श्राद्ध भोजीति कृता पुरुष उच्यते न श्राद्धभोजनाभापात्रमेवमिहापि तद्धितेनैकान्तनियतताप्रतिषेधविशिष्टो हेतुरेवोच्यते नाभावमात्रमित्येवमुभयथापि न दोषः, तस्योदाहरणम् - अनित्यः शब्दः प्रमेयत्वादिति, एष हि नित्यानित्यपक्षयोरन्यतरस्मिन्नपि न नियत इति विपक्षवृत्तित्वादन - कान्तिकस्तदेवं व्यतिरेकाख्य हे तुलक्षणशून्यो ऽनैकान्तिक उक्तो भवति ।
" ननु षट्प्रकाराः परैरनैकान्तिका इष्यन्ते सपक्षैकदेशवृत्तिर्विपक्षव्यापी विपक्षैकदेशवृत्तिः सपक्षव्यापी उभयपचौकदेशवृत्तिरुभयपपाव्यापी, साधारणश्चतुष्प्रकारः असाधारणो विरुद्वव्यभिचारी चेति स कथमिह न निर्दिश्यते" ।
उच्यते - सपचाव्याप्त्यादिभेददर्शनं तावदप्रयोजनकमशक्यं च हेत्वाभासानामवान्तरभेदेनानन्त्यात्, विपक्षाद्व्यावृत्तिर्यस्य नास्ति स सव्यभिचार इत्यन्यतमहेतुरूपरहितत्वमनैकान्तिकलक्षणमिह विवक्षितम्, तच्चोक्तमेव किमवान्तरभेदपरिगणनेन, असाधारणविरुद्धाव्यभिचारिणौ तु न संभवत एव हेत्वाभा - साविति न व्याख्यायेते ।
“ननु साधारणादसाधारणस्यापि गन्धवत्त्वादेः संशयहेतुत्वदर्शनात्कथमसंभवः अनेकधर्मोपपत्तेश्च संशयो भवद्भिरपि व्याख्यायत एव "
नैतदेवम्, उभयविशेषसहचरितधर्मदर्शन हि तदनुस्मरणप्रायं संशयमुपजनयति असाधारणस्तु असाधारणत्वादेव न तत्सहचरः कदाचिदुपलब्ध इति कथं संशयहेतुः । “कथं तर्ह्यनेकधर्मोपपत्तेरिति वर्णयिष्यते" वर्णितमेतद् वस्तुनो हि विशेषधर्मः कश्चिदसाधारणः केनापि धर्मान्तरेण सहचरितो दृष्टः सोऽयं शब्दे विभागजत्वाख्यो धर्मः केन (चित् ?) धर्मान्तरेण द्रव्यत्वेन गुणत्वेन वा सहचरितो भवेदितीत्थमनेकधर्मोपपत्तेः संशयोवर्णितः, तदिहापि गन्धवत्त्व. मसाधारणमित्थमेव यदि संशयहेतुतया वरायते तर्हि साधारणाद्वस्तुधर्मत्वादेव संशयो भवेन्नासाधारणाद्गन्धवत्वात्, न हि तन्नित्यानित्ययोरन्यतरेणापि सहचरितमुपलब्धम्, वस्तुधर्मस्तु धर्मान्तरानुयायी दृश्यत इति वस्तुधर्मत्वमेव तत्कारणमतो नित्या भूर्गन्धवत्त्वादित्य साधारणानैकान्तिको न वक्तव्यः, विरुद्धाव्यभिचार्यपि न वाच्य एव एकत्र धर्मिणि परस्परविरुद्धद्वय प्रयोजक हे तुद्वयोपनिपातस्यानुपपत्तेः ।
१५५