________________
न्यायमअयाम् "ननु प्रत्यक्षो वायुः स्पर्शवत्त्वाद् घटवद् , अप्रत्यक्षो वायुररूपत्वादाकाशवदित्यस्ति हेतुद्वयसन्निपातः, स एव च विरुद्धाव्यभिचार्युच्यत इति" अत्र तावदेतदेव वक्तव्यम्-को ऽयमपूर्वः प्रामाणिकव्यवहार ईदृशो यदनुमानेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा साध्यत इति इन्द्रियजप्रमितिविषयो हि प्रत्यक्षोऽर्थो भव. ति स एष वायुर्यदीन्द्रियजे प्रत्यये प्रतिभात्येव किमनुमानेनेति, किं चानयो. रन्यतरो हेतुरवश्यमप्रयोजको वस्तुनो द्वैरूप्यानुपपत्तेः, हेतौ च प्रयुक्ते तद्गु. णदोषपरीक्षणमेव प्रतिवादी विधत्ता कोऽवसरः प्रतिहेतूपन्यासस्य ।
“विडम्बनार्थस्तदुपन्यास इति चेन्न” विडम्बनोपन्यासस्य जात्युत्तरप्रकारत्वात्, इह च हेत्वाभासा वास्तवा एवानुमानदोषाः प्रतिपाद्यन्ते, न च विरुद्धाव्यभिचारी नाम वास्तवो हेतुदोषः, एकत्र प्रयोजकविरुद्धहेतुद्वयसमावेशासंभवस्योक्तत्वात् ।
"कथं तर्हि प्रकरणसम इति चेत्" तत्रैव विशेषं वक्ष्यामः ।
"अथ हेतुप्रयोगरहितोभयवादिपरिगृहीतपक्षप्रतिपक्षोपन्यासमात्रं विरुद्धा. व्यभिचारिणो रूपमुच्यते" सोऽयं विप्रतिपत्तेः संशयी भवति न हेत्वाभासा. दस्मादिति । __ "अपि च संशयजननमनैकान्तिकलक्षणमुच्यते चेत्" काममसाधारणस्य विरुद्धाव्यभिचारिणो वा यथा तथा संशयहेतुतामधिरोप्य कथ्यतामनेकान्तिकता न तु संशयजनकत्वं तल्लक्षणमिन्द्रियादेरपि तज्जनकत्वेन तथाभावप्रसक्तरपि तु पक्षद्वयवृत्तित्वमनैकान्तिकलक्षणम् , स तु पक्षद्वयवृत्तित्वात्संशयमपि जनयतीतिवस्तुस्वभावोऽयमतोऽसाधारणाविरुद्धाव्यभिचारिणोः कथंचित्संशयहेतुत्वे. ऽपि पक्षद्वयवृत्त्यभावान्नानै कान्तिकवर्गेऽन्तर्भावः । "क तर्हि तावन्तर्भविष्यतः" जात्युत्तराणामानन्त्यात्तत्रेति वक्ष्यामः ।
तस्मादसाधारणसंज्ञकस्य हेतोविरुद्धाव्यभिचारिणो वा । विपक्षवृत्तित्वमतर्कयन्तो वदन्त्यनैकान्तिकतां नयज्ञाः ॥
विरुद्धलक्षणम् । सिद्धान्तमम्युपेत्य तद्विरुद्धो विरुद्धः ॥
गौ० अ० १ आ० २ सू० ६ । सपक्षविपक्षयोवृत्त्यवृत्ती हेतो लक्षणमुक्तम् , ते यस्य विपर्यस्ते दृश्येते यः सपक्षे न वर्तते विपक्षे च वर्तते स साध्यविपर्ययसाधनाद्विरुद्धो भवति सो. ऽयमुच्यते सिद्धान्तमभ्युपेत्येति । सिद्धान्तशब्दो यद्यपि धर्मविशिष्टे धर्मिणि व्याख्यातः अयमित्थमित्यभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति, तथापीह