SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासप्रकरणम् । तदेकदेशसाध्यधर्मविषयो लक्ष्यते, तं सिद्धान्तसाध्यधर्ममभ्युपगम्य यो विरु. णद्धि ब्याहन्ति तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः । ___ "ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मयते इह च हेतोरचेतनस्याभ्युपगमे कर्तृत्वासम्भवात्पुरुषस्तत्कर्ता भवेत् सिद्धान्तं च विरुणद्धि हेतुरिति भिन्नकर्तृ कत्वमुच्यते" समानकर्तृकत्वसिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते हेतुबलात्पुरुषेणाभ्युपगमः क्रियमाणो हेतुनैव कृतो भवति, एवं च स एवाभ्युः पगन्ता स एव विरुणद्धीति न भिन्नकर्तृकत्वम् । "ननूपचारपरिप्रहश्चेदभिमतस्तत्र त्रितयं वक्तव्यम्- साध्येऽर्थे प्रमाणबाधो निमित्तं प्रयोजनं चेति" साध्येऽर्थे प्रमाणबाध उक्त एव हेतोरचेतनत्वम्, निमित्तमप्यस्ति हेतुसाधनको धुपगम इति, प्रयोजनं तु विशेषविरुद्धानां हेत्वाभासत्वनिवारणम्। सिद्धान्तशब्दस्य समुदायवाचिनो यदेकदेशेऽवस्थापनं तस्यापि विशेषविरुद्धव्यवच्छेद एव फलम् , विशेषविरुद्धानां हि हेत्वा. भासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः, न हि तथाविधो हेतुरिह जगति कश्चिदवाप्यते यः साध्यसिद्धयेऽमिधीयमानो धर्मस्य वा धर्मिणो वा विशेष न कंचन बाधते, तथा हि अनित्यः शब्दः कृतकत्वादिति सकलतार्किकगृहप्रसिद्ध एव हेतुरनित्यतां साधयन्नपि यद्यत्कृतकं तत्तदश्रावणं दृष्टं यो यः कृतकः स स व्योमविशेषगुणो न भवतीति धर्मिणो विशेष बाधते एवेत्यहेतुः स्यात्, न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासोऽभ्युपगन्तव्यः किन्तु साध्यस्वरूपविपर्ययसाधन एवेति, अत एव यथा तीर्थान्तरे वय॑ते विरुद्धश्चतुष्प्रकारो धर्मस्वरूपविपरीतसाधनो धर्मिस्वरूपविपरीतसाधनो धर्मविशेषविपरीतसाधनो धर्मिविशेषविपरीतसाधन इति तथेह नेष्यतेऽतिप्रस. गस्य दर्शितत्वादिति, अस्योदाहरणं नित्यः शब्दः कृतकत्वादिति । "नन्वेकैकलक्षणापायात्पश्च हेत्वाभासा इत्युक्तम् अस्य च हेतोरुभे लक्षणे न स्तः, यथा ह्यस्य सपक्षे वृत्तिर्नास्ति तथा विपक्षादपि व्यावृत्तिः, यदि हि सपक्षादिव विपक्षादपि व्यावृत्त एव भवेद् गन्धवत्त्ववदसाधारण एव स्यादि. ति" सत्यमेवं किन्तु विपक्षादव्यावृत्तिर्व्यभिचारं प्रति प्रयोजकतां प्रतिपद्यते प्रतिपक्षगामी हि व्यभिचरित इत्युच्यते, सपक्षे वृत्तिविच्छेदस्तु विपर्ययसिद्धौ प्रयोजक इति सत्यामपि विपक्षवृत्तौ सपक्षावृत्तिविच्छेदनिबन्धनमेवास्य विरुद्धत्वमुच्यते विपक्षादप्रच्युतः स्वसाध्यमेव न साधयेत्सपक्षे त्वव. र्तमानोऽसौ विपरीतमपि साधयतीति तल्लक्षणापायकृतमेवास्य विरुद्धत्वमाच. आते इत्यलं सूक्ष्मक्षिकया, तदित्थमुक्तसिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति। अन्ये त्वन्यथा व्याचक्षते-किल साध्यधर्मविपर्ययसाधकवदपसिद्धान्तप्रति.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy