________________
१५८
'न्यायमझयाम् ज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः संग्रहीतुं युक्ता एव, ते चैवं व्याख्यायमाने न संगृहीताः स्युः, क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम् , तस्मादभ्यपगतसिद्धान्तविरोधी विरुद्ध इति सूत्रार्थे वर्णिते अभ्युपगतं सिद्धान्तं यो विरुणद्धि स विरुद्धः, तत्कालोपात्तप्रतिज्ञाविषयीकृतं वाऽवसरान्तरव्यवस्थापितं वेत्येतत्संग्रहश्च कृतो भविष्यति, सिद्धान्तशब्दश्च न सङ्कोचितो भवि. व्यति, क्त्वाप्रत्ययस्त्वसङ्गतत्वादुपेक्ष्यते एव भिन्नकर्तृकत्वादानन्तर्यस्य गम्यमा. नस्य चानुपयुक्तत्वादिति, तथा च भाष्यकारेण पूर्वाभ्युपगतसिद्धान्तानुगुणमेवादाहरणमुक्त-सोऽयं विकारो व्यक्तरपैति नित्यत्वप्रतिषेधादपेतोऽप्यस्ति विनाशप्रतिषेधादिति, अत्र हि प्रतिषिद्धनित्यधर्मत्वादित्ययं हेतुर्व्यक्तरपेतोऽपि विकारोऽस्तीत्यमुं सिद्धान्तं विरुणयनेन वा विरुध्यते-इति । ___एतत्त्वहृदयङ्गममिव व्याख्यानम्, अपसिद्धान्तप्रतिज्ञाविरोधादेनिग्रहस्थानसूत्रे हेत्वाभासेभ्यः पृथगुपदेशाकिमिह तत्संग्रहण, प्रत्यत संग्रह एव दोषः, यो हि मीमांसकोऽहमित्यभ्युपगम्यानित्यः शब्दः कृतकत्वाद् घट वदिति ब्रूयान्न तस्यायं हेतुर्विरुद्धो भवेदपि त्वपसिद्धान्तान्निगृह्येत, तस्मात्सा. ध्यविपर्ययसाधन एव विरुद्ध उच्यते न तु पूवोभ्युपगतस्वसिद्धान्तविरुद्धः, न च निरभिप्राय एव सूत्रकृता क्त्वानिर्देशः कृतः किन्तु ततः प्रतीयमानमान त. यमप्यपेक्षमाणेन यो हि सिद्धान्तमभ्यपेत्य प्रतिज्ञाय तत्सिद्धयर्थतयोपादीयमानस्तमेव विरुणद्धि स विरुद्धो हेत्वाभास इति प्राक्तनमेव व्याख्यानमनवद्यम् । .
अतः प्रतिज्ञाविपरीतसाधनाद्विरुद्धतामेति न हेतुरन्यथा । विशेषबाधादिनिबन्धनं पुनर्बहुप्रकारत्वममुष्य नेष्यते ।।
सत्प्रतिपक्षलक्षणम् । यस्मात्मकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥
गौतमसूत्रम् अ० १ आ० २ सू० ७ । एकैकलक्षणापायनिमित्तहत्वाभासपञ्चकप्रतिज्ञानादसत्प्रतिपक्षत्वलक्षणवै कल्यास्किल प्रकरणसमो नाम हेत्वाभासो वक्तव्यः, स च न सम्भवति सप्रति पक्षस्य हेतोरभावाद्वयात्मकत्वाद्धि वस्तूनामेकत्र परस्परविरोधिधर्मद्वयप्रयो. जकहतुसमावेशो नास्तीत्यसकृदुक्तम , अत एव विरुद्धाव्यभिचारी निरस्तः, अनुमानविरुद्धमनुमानं च नेष्यत एव, तत्कुतः सत्प्रतिपक्षा हेत्वाभासो ऽतश्च लक्ष्याभावात्कस्येदं लक्षणमित्याशङ्कयाह-यस्मादित्यादि, विचार्यमाणौ प्रागु. क्तलक्षणको पक्षप्रतिपक्षी प्रकरणम् , तस्य चिन्ता संशयात्प्रभृत्या निर्णयाद्यद्य. पि भवति तथापीह विमर्शात्मिकैव गृह्यते, सा यस्माद्भवति, कस्माच सा भवति ? विशेषानुपलम्भात् , स एव विशेषानुपलम्भो यदि निर्णयार्थमुपदिश्यते तत्प्रकर