________________
हेत्वाभासप्रकरणम् ।
१५४
णमनतिवर्तमानत्वात्प्रकरणसमो भवति-नित्यः शब्दः अनित्यधर्मानुपलब्धेराकाशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदिति, सोऽयं सप्रतिपक्षा हेतुरिह लक्ष्यो विद्यते, न च व्यात्मकानि वस्तनि, प्रमातारस्तु रूपमेषां निय. तमवधारयितुमशक्नुवन्त एव भ्राम्यन्तीति, तथा ह्येको विशेषानुपलब्धेः पक्ष. धर्मान्वयव्यतिरेकावपश्यंस्ततस्तथेति साध्यं बुध्येत तथैव च परं प्रत्यायये. दिति, इतरोऽपि द्वितीयविशेषानुपलब्धेः साधनतां बुद्ध्वा प्रत्यवस्थानं च करो. तीति सप्रतिपक्षक एवैष प्रकरणसमो हेत्वाभासः, तथा च न तावदयं सम्यग् हेतुः प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थानसामर्थ्यशुन्यत्वात् , हेत्वाभासो ऽपि च भवन्न तावदसिद्धः साध्य धर्मिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः स. द्भावात् , नापि विरुद्धः साध्यविपययसाधननिमित्तभूतः सपतवृत्तिवियोगानुप. पत्तः, नाप्यनैकान्तिकः पक्षद्वयसाधारणत्वानवधारणात् , संशयजनकत्वं तु न तस्य लक्षणमित्युक्तमेव । . "नन्वेकस्मिन्पक्षे नियत ऐकान्तिकस्तद्विपर्ययादनकान्तिकः स चायं नित्यानित्यपक्षयोरन्यतरत्रापि न नियत इत्यनैकान्तिक एव स्यात् , अपि चाहुः-अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैरिति, (श्लो० वा० २ सू ५५ श्लो०)तत्र यथेन्द्रियादेरबोधकत्वाद्वा संशयविपर्ययस्वभावावभाससमुत्पादनादौरात्म्याद्वा भवत्यप्रामाण्यव्यवहार एवमनुमानमपि तथैव वर्त्मना प्रमाणाभास. तामवलम्बते, तत्रासिद्धस्तावदलभमानो धर्मिणि वृत्तिं तत्र साध्यधर्मधियमाधा. तुमनधिकृत इत्यज्ञानफलत्वादप्रामाण्यमनुभवति, विरुद्धस्तु विपर्ययसाधन इति भवन्त एव प्रतिपन्ना,: संशयजनकम्त्वनैकान्तिको भवितुमर्हति न तु पारिभाषिकविपक्षवृत्तित्वमेव तस्य लक्षणमुचितमयमपि चान्यतरपक्षनियमविरहिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति य एव हेत्वाभासाः"
उच्यते-न फलनियमेन लक्षणनियमः कतुं शक्यते, यद्यपि द्विविधं त्रिविधं वा भवत्यप्रमाणफलं तथापि न त्रिलक्षणके लिङ्गेऽविनाभावः परिसमाप्यते. ऽपि तु पञ्चलक्षणक इति प्रसाधितोऽयमर्थः, तद्वैकल्याच हेत्वाभासानामपि पञ्चत्वमेव, फलं तु द्विविधमस्तु त्रिविधं वा न ह्यप्रतिपत्तिजनक किंचिल्लिङ्गमुपलभामह, न चाप्रतिपत्तिः प्रयत्नजन्या प्रागभावस्य निसर्गसिद्धत्वादित्यलमवान्तरचिन्तनेन, न फलापेक्षा लिङ्गलक्षणनियमः तत्र यथा पक्षधर्मरहितत्वम सिद्धलक्षगमेष च हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल इति कथमनेकान्तिकता प्रतिपत्स्यते, व्यस्ततायां हि सर्वाण्येतानि सन्ति लक्ष णानि समस्तं वस्तु नोपन्यस्तमेव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति.।
"ननु यद्यस्य पक्षधमोन्वयव्यतिरेका निरपवादाः सन्ति कथं तहिं न हेतु.