________________
न्यायमअर्याम् रेवायम् , इतरस्यापि पक्षधर्मान्वयव्यतिरेकाणां निरपवादानां सम्भवात्सोऽपि न कथं हेतुरस्त्विति चेद्" न वस्तुनो द्वैरूप्यानुपपत्तेः, एवमिमौ हेतू पक्षाद्वयेऽपि बुद्धि जनयन्तौ संशयमावहतो नानकान्तिकवद्विपक्षावृत्तित्वेनेति हेत्वाभा. सान्तरत्वम् , एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि क्रियते तदपि भवतु न पुनरनैकान्तिकप्रभेदतामवलम्बते तल्लक्षणासंस्पर्शादुभ. यप्रतीतिजनको होमो हेतू भवतो नोभयपक्षावृत्तीति, नाप्ययं कालात्ययापदिष्टः प्रत्यक्षागमयोरन्यतरस्यापि बाधकस्यानुपलम्भात् , अनुमानं तु नानुमानस्य बाधकं भवितुं क्षममित्युक्तम् , न चेतरेतरवायपेक्षयाऽनयोरसिद्धत्वमभिधेयम् , संशयजनकत्वेऽनुभवसिद्धे सति विशेषानुपलब्धेरप्रत्याख्येयत्वात् । ___ "ननु निश्चितस्य साधनप्रयोगाधिकारात्कथं चिन्तावान्साधनं प्रयुजीत, नि. श्चितत्वं च तद्धर्मानुपलब्ध्याः परस्परमसिद्धत्वं स्थितमेव" नैतदेवम् , अन्यतरधर्मानुपलब्धेरेव पक्षधर्मान्वयव्यतिरेकान्पश्यन्न सौ निश्चिततां प्राप्तो न द्वि. तीयधर्मानुपलब्धेरसिद्धतां बुध्यमानः, अत एवायं भ्रान्तिमूलहेत्वाभासः द्विती. यधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग् हेतुरेव स्यात्, तदसिद्धत्वानवधारणे. ऽप्यसौ स्वस्य हेतोस्वरूप्यदर्शनानिश्चितमतिर्भूत्वा साधनं प्रयु जान इतरेण तथैव निश्चितमतिना प्रतिप्रयोगे कृते तस्यापि त्रैरूप्यमुपलभमानः संशयमधि. गच्छतीत्यलं प्रसङ्गेन, तदेवमसिद्धादिलक्षणवैपरीत्यात्प्रतीत्यनुगुणः प्रकरणसमो नामाऽसिद्धो हेत्वाभासः ।
अपरे पुनरुदाहरणान्तरमस्य व्याहरन्ति-नित्यः शब्दः पक्षसपक्षयोरन्य. तरत्वाद् आकाशवत्, अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् घटवदिति । ___ "ननु पक्षसपक्षयोरन्यतरः पक्षो वा स्यात्सपक्षो वा स्यान्न तृतीयो न हि मित्त्रावरुणयोरन्यतरः सोमो भवितुमर्हति तत्र पक्षेऽन्यतरशब्दवाच्येऽनन्वयो न हि शब्दाख्यः पक्षो धर्मी धर्म्यन्तरे वर्तते, सपक्षे त्वन्यतराभिधेये पक्षधर्मता नास्ति म ह्याकाशादिः सपक्षः शब्दाख्ये धर्मिणि वर्तते"
उच्यते-न पक्षत्वादिति हेतुः प्रयुक्तः सपक्षत्वादिति वा येनैवं स्यात् किं तु पक्षसपक्षयोरन्यतरत्वादिति, ततश्च द्वयोरपि किमपि साधारणरूपं न हि वरुणो यष्टव्य इति यादृशी बुद्धिस्तादृश्येव मित्रावरुणयोरन्यतरो यष्टव्य इति, विशेषनिष्ठतायां तु बलादापाद्यमानायां सकलानुमानाच्छेदः, न चान्यतरत्वं शब्दमात्रारोपितरूपमवास्तवमिति वदित मुचितमीसंस्पर्शितायाः प्रतिक्षिप्तत्वात् ।
"अन्यतरत्वादित्यसिद्धो हेतुरिति चेत्किल पक्ष एवायं न पक्षसपक्षयोरन्यतर" इति ।
तदयुक्तम् , यत एवायं पक्षस्तत एव पक्षसपक्षयोरन्यतरो न ह्यपक्षः पक्षस