________________
१३४
न्यायमञ्जर्याम्
पवमात्रं तु पक्षदृष्टान्तदोषवर्णनम्, दृष्टान्तदुष्टतया च हेतोरेव लक्षणमन्वयव्यतिरेकयोरन्यतरद्धीयते इति सर्वे च ते हेतु दोषा एव ।
अत एव च शास्त्रे ऽस्मिन्मुनिना तत्त्वदर्शिना । पक्षाभासादयो नोक्ता हेत्वाभासास्तु दर्शिताः ॥ कश्चिद्धेत्वनपेक्षोऽपि पक्षमात्रप्रतिष्ठितः । बाधोऽनुमानरूपस्य स्ववाक्यादिकृतो यथा ॥
एवंलक्षणको हेतुरिति तत्स्वरूपावधारणे सति तदभिधायकं वचनं सुखलक्ष्यते इस्र्थात्मक हे तुलक्षणं तावदुच्यते
उदाहरणसाधम्र्यात्साध्यसाधनं हेतुरिति ॥ ( १|१|३४ )
“नन्वर्थात्मको हेतुरनुमानं तच्च लक्षितमेव पूर्व तत्पूर्वकं त्रिविधमनु मानमिति” । सत्यं तस्य तत्पूर्वकमिति सर्वनामपरामृष्टप्रत्यक्ष मूलतोपवर्णनेन प्रतिब न्धपरिच्छेदोपायमात्रनिरूपणं कृतमिह तु प्रतिबन्धस्वरूपमपि प्रतिपाद्यते, त त्रार्थात्मके हेतौ लक्ष्ये पञ्चमीमपास्योदाहरणसाधर्म्ये साध्यसाधनं हेतुरिति सूत्रं पठन्ति, व्याचक्षते च-साधर्म्य हेतुरित्युच्यमाने गन्धवश्वादेरसाधारगृहे तोः सांध्यधर्मिव्यक्तिभेदवृत्तित्वेन साधर्म्यरूपसंभवाद्विरुद्धस्य पक्षविपक्षवृते स्तत्साधर्म्यस्वभावत्वाद्धेतुत्वं प्रसज्यत इति तन्निवृत्त्यर्थमुदाहरणग्रहणम्, उदाह्रियते - ऽस्मिन्साध्यसाधनयोः प्रयोज्य प्रयोजकभाव इत्युदाहरणं दृष्टान्तः तेन साधर्म्य, कस्येति ? प्रकृतत्वात्प्रत्यासत्तेश्च साध्यस्य धर्मिण इत्यवगम्यते, उदाहरणसाधर्म्य साध्यदृष्टान्तधर्मिसाधारणो धर्मों हेतुरिति नासाधारणादौ तथात्वप्रसक्तिरिति एवमपि प्रमेयत्वादेरनैकान्तिक हतोस्तथा भाग| सिद्धस्यानित्यत्वसि -
"
-
ये चतुर्विधपरमाणुपक्षीकरणे गन्धवत्त्वादेः प्रकरणसमकालात्ययापदिष्टयोश्चोदाहरणसाधर्म्यसम्भवाद्धेतुत्वं भवेदिति तद्वयवच्छेदाय साध्यसाधनग्रहणम्, साध्यदृष्टान्तधर्मिणोश्च समानो धर्मः साध्योऽप्यनित्यत्वादिः भवत्येवेति तस्यापि हेतुता मा प्रसाङ्क्षीदिति साध्यसाधनग्रहणम्, लिङ्गसामान्यलाभार्थ साध्यसाधनं यदुदाहरणसाधर्ध्यं स हेतुरिति साध्यसाधनपदेन च प्रतिबन्धो लक्ष्यते स च सव्यभिचारदिषु नास्तीति न ते हेतवः, प्रतिबन्धश्च पञ्चलक्षणक इत्यकै कलक्षणाभावकृतहेत्वाभासपश्च कनिर्देशादेव सूचितवानाचार्यः । "नन्वेवं तर्हि साध्यसाधनग्रहणमेव हेतुलक्षणमस्तु तद्धि सकलहेत्वाभासव्युदाससमर्थमिति किमुदाहरणसाधर्म्यग्रहणेन ?” समानजातीयव्यवच्छेदार्थत्वात्,
"
तव हि विजातीयान्तद्वयवच्छेदः साध्यसाधनग्रहणात्समानजातीयस्य केवलव्यतिरेकिणो व्यवच्छेदायोदाहरणसाधर्म्य प्रहणमिति । " तत्किं केवलान्वयी हेतुरिति लक्ष्यत्वेन विवक्षितः ?” न तथाविधस्य हेतोरभावात् अन्वयव्यतिरे