________________
१३३
अवयवयप्रकरणम् ।
न च स्वप्रतिपत्तावुपलब्धं सर्वमेव परस्मै आख्येयम्, आख्याने वा धर्मिमात्रमाख्यायताम्, स्वप्रतिपत्तौ हि पूर्व पर्वतादेः शुद्धस्य धर्मिणो ग्रहणं न तु सिषाधयिषितहुतवहादिधर्मविशेषरूषितवपुषः, एवमभ्युपगमेऽनुमानवैफल्य - प्रसङ्गादतः कथं प्रथममेव साध्यधर्माध्यासितस्वरूपधर्मि निर्देशकरणम्, अपि च विवादादेव प्रतिज्ञार्थी लभ्यते इति किं स्वक ठोक्तेन तेन प्रयोजनम् ।” उच्यते - स्वप्रत्तिपतिमनुसरता परस्य प्रतिपत्तिरुत्पादनीयेति स्वप्रतिपशौ प्रथममुपलब्धो धर्मी तावदाख्येय एवानुद्देश्यमाने हि धर्मिणि निरधिकरणो हेतुः क साध्यं साधयेत्, धर्म्यनवच्छिन्न च धर्ममात्रेऽनुमानमनर्थकम विवादसिद्धत्वात् अस्ति हि यत्र कचिदनित्यत्वमित्याश्रयासिद्धश्च धर्मनिर्देशाद्विना हेतुर्भवेदित्यवश्यनिर्देश्यो धर्मः, यद्यपि च धर्मिमात्रदर्शनमेव प्रथममभूत्तथाऽपि किं साधयितुं हेतुः प्रयुक्तो भवेदित्युपप्लवशमनाय साध्यधर्मनिर्देशोऽपि कर्तव्यः, शब्दः कृतकत्वादिति हि प्रयुज्यमानं तदिदमन्धपदमिव साधनं भवेत् । "अथ व्याप्तिप्रदर्शन निपुणेन यत्कृतकं तदनित्यं दृष्टमिति दृष्टान्तवचसा, तस्मादनित्य इति निगमनवचनेन वा विरंस्यति स उपप्लव इति" तत्रापि श्रोतृबुभुत्सोपरमपरिश्रमफले साधनवाक्ये साधनाधिगमकाङ्क्षासमुत्पा• दनाय साध्यं निर्देष्टव्यं न हि शब्द इत्येतावत्युक्ते तत्र साधनमाकाङ्क्षति क श्चिदिति साधनवचनावसरतत्प्रयोगसाफल्योत्पादनायैव नूनमनित्यः शब्द इति प्रतिज्ञावचनं प्रयोक्तव्यम् यच्च विवादादेव प्रतिज्ञार्थस्य लब्धत्वमभिधीयते, तदभ्युपगमनमेव शब्दान्तरेण प्रतिज्ञायाः, यतो विरुद्धो वादो विवाद एक आह नित्यः शब्द इतरस्त्वनित्य इत्याह सोऽयं पक्षप्रतिपक्षपरिग्रहों विवादः प्रतिज्ञैव, स तु पक्षप्रतिपक्षपरिग्रहस्तदहरेव भवतु दिनान्तरे वेति किमनेन विशेषेण, तस्मादपरिहार्ये प्रतिज्ञावचनमिति सिद्धम्, प्रतिज्ञैव च पक्ष इत्युच्यते । तदेवंविधे पक्षलक्षणे प्रदर्शित बलात्पक्षाभासाः प्रतिक्षिप्ता भवन्ति, तद्यथाऽनुष्णोऽग्निरिति प्रत्यक्षविरुद्धः पक्षः, न रूपग्राहि चक्षुरित्यनुमानविरुद्धः, शब्दविरुद्धस्तु बहुशाखः - ब्रह्मणेन सुरा पेयेत्यागमविरुद्धः, जनित्री मे वन्ध्या, पिता मे ब्रह्मचारीति धर्मधर्मिपदयोरेव विप्रतिषेधात्स्ववचनविरुद्धः, न चन्द्रः शशीति लोकप्रसिद्धिविरुद्धः, उपमानविरुद्धस्तु न गवयशब्दवाच्योऽयं गोसदृश इति, अः प्रसिद्धविशेषणो नभः कुसुमकृतावतंसश्चैत्र इति, अप्रसिद्ध विशेष्यः सुगन्धि गगनकमलमिति, अप्रसिद्धोभयः खपुष्पकृतशेखरो वन्ध्यासुत इति, यत्रापि विशेषणविशेष्ययोः प्रमाणान्तरतः स्वरूपं निश्चितमेव तन्निर्देशोऽपि पक्षाभास एव शीतं तुहिनमुष्णोऽग्निरिति साध्यत्वाभावेनानुमानप्रयोगावसरविरहादितीयमेव च सा सिद्धसाध्यतोच्यते इति, ये चैते प्रत्यक्षविरुद्धतादयः पक्षदोषाः, ये च वक्ष्यमाणाः साधनविकलत्वादयो दृष्टान्तदोषास्ते वस्तुस्थित्या सर्वे हेतुदोषा एव प्र.
"