________________
न्यायमअयाम्
प्रमातुः प्रमाणानि प्रवर्तमानानि प्रमेयमर्पयितुं पारयन्ताति सम्भावना शक्य प्राप्तिः साऽपि तथैव न वाक्यावयवं स्पृशेत् , (तत्त्वावधारणफलात्मकं प्रयोज. नमपि न वाक्यैकदेशः ?) संशयव्युदासस्तु प्रतिपक्षोपालम्भः, स च वचनस्व भावत्वेऽपि न साधनवाक्यावयवः किन्तु,वाक्यान्तरमेवेति न साधनवाक्यस्या वययवत्वं प्रतिपद्यते, तदिमे संशयादयः प्रवृत्तिहेतवो भव न्ति न वाक्याव. यवा इति सूक्तं प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति । तेषाम
' साध्यनिर्देशः प्रतिज्ञा ॥ (१।१।३३ ) प्रतिज्ञेति लक्ष्यनिर्देशः, साध्यनिर्देश इति लक्षणम् , शुद्धस्य धर्मिणो धर्मस्य वा द्वयोर्वा स्वतन्त्रयोर्धर्मिविशिष्टस्य वाधर्मस्य साध्यत्वानुपपत्तः धर्मविशिष्टा धर्मी साध्य इत्युमानलक्षणे निर्णीतमेतत् , तस्य निर्देशः परिग्रहवचनं प्रतिज्ञेति । "ननु सावधारणत्वाद्वाक्यानां कि साध्यनिर्देश एव प्रतिज्ञेत्यवधारणमुत प्रतिज्ञैव साध्यनिर्देश इति, यदि साध्यनिर्देश एव प्रतिज्ञेत्यवधार्यते तदा. यत एवकारकरणं ततोऽन्यत्रावधारणमिति प्रतिज्ञा नियम्यते साध्यनिर्देशमा त्याक्षीदिति, साध्यनिर्देशस्त्वनियमित इति प्रतिज्ञामपहायापि भवेदित्यति. व्यापकं लक्षणम् , अथ प्रतिज्ञैव साध्यनिर्देश इत्यवधार्यते ततः साध्यनिर्देशो नियम्यते प्रतिज्ञा मा त्याक्षीदिति प्रतिज्ञा त्वनियमितेति साध्यनिर्देशमपहायापि भवेदिति साध्यनिदेशेन प्रतिज्ञाया अव्याप्तत्वाव्यापकं लक्षणमि"ति । तदेतदयुक्तम्-न हि सर्व वाक्यं सावधारणं भवति यथेष पन्थाः स्त्रघ्नं गच्छ- ' ताति न हि तत्रैष एवेति स्रुघ्नमेवेति वा गच्छत्येवेति वा नियन्तुं शक्यते इति । अथाप्यवधारणमवश्याश्रयणीयं तद्भवतु साध्यनिदेश एव प्रतिज्ञति, न चातिव्याप्तिःप्रतिज्ञामपहायोन्यत्र साध्यनिर्देशस्यादर्शनात् , अनियमिताऽज्यसावन्यत्र न दृश्यत एवेति तस्मात्साध्यनिर्देश एव प्रतिज्ञति स्थितम् , तद्यथा अनित्यः शब्द इति । "नन्वत्रापि किमानत्य एवेत्यवधारणमुत शब्द एवानित्य इति, तानित्य एव शब्द इस्युक्ते तद्गतधमोन्तरतिरस्कारास्कृतकत्वमपि त. त्र न भवेदित्यसिद्धो हेतुः, शब्द एवानित्य इति त्ववधायमाणे घटादावनित्यत्वप्रतिषेधादन्वयशून्यता हेतोः स्यादिति" । नेष दोषः , निरवधारणस्यापि वचनप्रयोगस्य दर्शितत्वात् , अनित्य एव शब्द इत्यवधारणे वा नानित्यत्वव्य. तिरिक्ततदविरुद्धकृतकत्वाद्यशेषधमोन्तरनिषेधस्तत्र विधीयते किन्तु तद्विरुद्धनित्यत्वमात्रनिषेध एवानित्य एव शब्दा न नित्य इत्यथः तदुक्तम्__नियमस्तद्विरुद्धाच्च कल्प्यते नाविरोधिनः । इति ।
तस्मान हेतोरसिद्धत्वम् । “ननु साधनवाक्ये प्रतिज्ञावचनमसमन्जसम. साधनाङ्गवचनत्वात् , हेतुदृष्टान्तवचनाक्यां हि साध्यसिद्धस्ते एव वक्तव्यो.