________________
अवयवप्रकरणम् ।
किन्त्वेनमनुमानेन बोधयामीति मन्यते । सोऽपि तद्वचनान्नैव तमर्थमवबुध्यते ॥ किन्तु व्याप्तिमतो लिङ्गात्स्वयं तत्तु न पश्यति ।
तत्प्रतीत्यभ्युपायावात्परार्थमिदमुच्यते ॥ अतश्च श्रातुः स्वार्थानुमानमेवेदं वक्ता तु तथा परं प्रतिपादयन्परार्थमनुमानं प्रयुत इत्युच्यते ।
न चानुवादमानं तद्वक्तु रित्युपपद्यते ।
यतो व्याप्रियते सम्यक्परस्य प्रतिपत्तये ॥ तेनानधिगतार्थोपदेशकत्वान्नानुवादमात्रं स्वागमापेक्षया त्वनुवादवे नेदानी. माप्तवचनमनुवादरूपं किंचिद्भवेत्सर्वस्य स्वोपलब्धिपूर्वकत्वादिति, तस्मात्परार्थानुमानवाक्योपपत्तेस्तदेकदेशा अवयवा युक्ता इति लक्ष्यन्तेप्रतिमाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ (अ०१ प्रा० १ सू०३२) - एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते, विभागं च प्रमा. णानामिव प्रत्यक्षानुमानोपमानशब्दास्साधनीयार्थप्रतिपत्तिपर्यन्तवचनकलापैकदेशत्वमवयवानां सामान्यलक्षणमाचष्टे । यद्यपि चैकवक्तवचननिर्गतानां निसर्गभङगुराणामदीर्घायुषामपरिहार्यक्रमजन्मनां दुमाणामिव पारमार्थिकस्समूहो न समस्त्येव, तथाऽषि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोगमूलीकृतास्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समर्थित इति तद्भागा अपि संभवन्त्येव । न च पदानामेवानुमानवाक्यावयवत्वम् , अपि तु खण्डवाक्यानामेकेन पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात् , हेतुवचनं त्वेकमपि पदं क्वचिद्भवति कृतकत्वादिति, तदपि वा सविशेषणं प्रयुज्यमानं पदसमुदायेनैव प्रतिपाद्यते वस्तुत्वे सति कृतकृत्वादिति, उदाहरणवचनमपि पटवदित्येवमालस्यादेव प्रयुज्यते तद्धि व्याप्तिदर्शनायैव वक्तव्यं यत्कृतकं तदनित्यं दृष्टं यथा घट इति, तस्मादवयवानामवयवत्वमेव लक्षणं न पदत्वम् , विभागो ऽपि प्रतिज्ञादिपदसन्निधाववयवश्रतेरेवावगम्यते प्रतिज्ञादयः पञ्चावयवा न न्यूनातिरिक्ता इति । "नन्वत्र विवदन्ते केचिन्यूनतामवयवानामाचक्षते त्र्यवयवं द्यवयवं वा साधनवाक्यं वदन्तः, अन्ये तु जिज्ञासा संशयः प्रयोजनं संशयव्युदास इति पञ्चभिस्सह प्रतिज्ञादीन् दशावयवानाहुः" । उच्यते-न्यूनता यथाऽवसरं प्रतिसमाधास्यते, आधिक्यमप्ययुक्तं जिज्ञासादीनामशब्दस्वभावत्वेन वाक्यावयवत्वायोगात् , तथा ह्यप्रतीयमानेऽर्थे प्रतीतिप्रयोजनस्य प्रवर्तिका जिज्ञासा सा चेच्छावभावत्वादान्तरः प्रमातृधर्मो न वाक्यावयवः, अर्थक्रिया. साधनेऽर्थे विमर्शः संशयः किमेवमयमथवैवमिति ज्ञानात्मकत्वान्न वाक्यावयवः,