________________
१३०
न्यायमर्जयाम्
तस्मादेवं व्याख्यायते - अपरीक्षिताभ्युपगम एव स्वमति कौशलेन क्रियमाणेऽभ्युपगमसिद्धान्तः अस्तु द्रव्यं शब्द इति, प्रमाणमूलाभ्युपगमषिषयीकरणं तु सामान्यलक्षणे प्रौढवाद्यभिप्रायेण योज्यम्, द्रव्यत्वमपि प्रमाणमूलं शब्दस्य भवतु तथापि तस्यानित्यत्वमिति किल निरवयवं द्रव्यमनित्यं नास्त्येव शब्दस्य तु तादृशस्याप्यनित्यत्वमहं साधयामीति, कथं तर्हि पञ्चमी? किं पञ्चम्या वस्तु तावदीदृशं यथा व्याख्यातमस्माभिः, पञ्चम्यपि चेत्थं योज्यते - किमर्थं पुनरयमपरीक्षित एव शब्दद्रव्यत्वाभ्युपगमः क्रियत इति पृच्छत उतरं पञ्चम्या - भिधीयते यस्मादपरीक्षिताभ्युपगमात्तद्विशेषानित्यत्वपरीक्षणमवकल्पते तस्मादपरीक्षिताभ्युपगमोऽभ्युपगमसिद्धान्त इति, न तु तद्विशेषपरीक्षणमेव सामानाधिकरण्यनिर्देशादभ्युपगमसिद्धान्त इति मन्तव्यं परीक्षणस्य सिद्धान्ताश्रितत्वात् तस्माद्विशेषपरीक्षणार्थोऽपरीक्षिताभ्युपगमः प्रौढवादिना क्रियमाणो ऽभ्युपगमसिद्धान्त इति सूत्रार्थः, इत्थमेव च तत्र तत्र प्रावादुकानां व्यवहारः । इमाश्च सिद्धान्तभिदाश्चतस्रो न्यायप्रवृत्तेः प्रथमं निमित्तम् । प्रवर्तते नैव परीक्षकाणामनाश्रया न्यायकथा कदाचित् ।। इति ( ५ ) सिद्धान्तपदार्थः ।
इह हि स्वयमवगतमर्थमनुमानेन परस्मै प्रतिपादयता साधनीयस्यार्थस्य याति शब्दसमूहे सिद्धिः परिसमाप्यते तावान्प्रयोक्तव्यः, तमेव च परार्थमनुमानमाचक्षते नीतिविदः ।
" ननु नैव परार्थमनुमानं नाम किंचिदस्ति वक्त्रपेक्षया श्रोत्रपेक्षया वा तदनुपपत्तेः,
क्त्रन्वमाथि सार्थो नेदानीमनुमीयते । श्रोतुः स्वार्थानुमानं तद्वाक्यावगतिहेतुकम् ॥ यथा प्रत्यक्षतो धूमं दृष्ट्वाऽग्निमधिगच्छति । तथा तदीयाद्वचनादिति कस्य परार्थता ॥ आगमस्त्वेष भिद्येत कश्चिदर्थोपदेशकः । कश्चिश्चत्तत्प्रत्ययोपायन्याय मार्गोपदेशकः ॥” इति ।
सत्यम्, न परमार्थतः परार्थमनुमानमुपपद्यते किन्तु द्विविधः प्रतिपत्ता स्वयमवगतयथाप्रकृतलिङ्गव्याप्तिस्तद्विपरीतश्च तत्र स्वयमवधृतप्रतिबन्धं प्रति नोपदिश्यते एवमनुमानं स्वत एव तस्य प्रतात्युत्पत्तेः, अवधारितव्याप्तिकस्य तु व्याप्तिरेव व्युत्पाद्यत इति तं प्रति परार्थमनुमानं तदुपदेशकं वाक्यमेवाख्यायते, तथा हि
वक्त्रा स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते । परो मद्वचनादेव तमथ बुद्ध्यतामिति ॥