Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 561
________________ न्यायमअर्याम् जयाम् पदार्था एवं भवतैवं मा भूतेति, यथा च देशान्तरे स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमावपि तु शिथिलोभवति संभवत्प्रमादत्वाञ्च न स. र्वात्मना निवर्तते। ननु यदि न निवर्तते तहि स्पर्धतां मा वा स्पर्धिष्ट स्थितस्तावत्स्थाणुपक्ष इति संशय एवायमिति" मैवम् स्थाणुपक्षः सर्वात्मना (न) निवर्तते नप्यास्ते एवमेवायं त्रिशङ्कुरिवालम्बमानः प्रत्ययान्तरनिवृत्तये प्रभवतीति तथा प्रत्ययानुभवादेव परिकल्प्यते, वाहकेलिप्रदेशदर्शने हि यया पुरुषविशेषाः स्मरणपथमवतरन्ति न तथा स्थाणु. विशेषाः उभयविशेषम्मरणजन्मा च संशय इति सोऽयं वाहकेलिप्रदेशविशेष:शिथिलयति स्थाणुप न सर्वात्मनोच्छिनत्तीति तदर्शनात्कृतकतत्कारणप्रत्यय इति न तद्धदयंगमं तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तर्क इति । अथ वा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययो द्रष्ट. व्यः स उदाहरणं भविष्यति । ____“उह इति पर्यायाभिधाने किं प्रयोजनं" लक्षणप्रतिपादनमेव, तदेव हि तर्कस्य लक्षणं यदूहरूपत्वं इतरस्तु सूत्रे कारणविशेषाय फलनिर्देशः, कारणोपपत्तित इति कारणनिर्देशः, अविज्ञाततत्त्वेऽर्थे इति विषयनिर्देशः, तत्त्वज्ञानार्थ इति फलनिर्देशः। अपि च तर्कशब्दं के चिदनुमाने प्रयुञ्जते, यथा स्मृतिकाराः पठन्ति- . आषं धर्मोपदेशं च वेदशास्त्राविरोधिना । - यस्तणानुसंधत्ते स धर्म वेद नेतरः ।। इति ॥ तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम् , उहोऽत्र तर्क उच्यते नानु: मानं तत्त्वज्ञानार्थताऽप्यस्य प्रमाणानुप्राहकत्वेन न साक्षात् , तथैव चाथै साध. यितुमेष वादे प्रयुज्यते हृदयशुद्धिप्रकाशनार्थम् । कापिलास्तु बुद्धिधर्ममूहमाहुः, स तसिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूपप्रकृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव निरस्तः । जैमिनीयास्तु अवते-युक्तया प्रयोगनिरूपणमूह इति, इह हि किंचिदुपदिष्टदृष्टादृष्टस्वभावसकलेतिकर्तव्यताकलापं कर्म भवति यथाऽऽग्नेयोऽष्टाकपाल इति दर्शपूर्णमासकाण्डे पठितम् , व चित्पुनः प्रधानकर्ममात्रमुपदिश्यते इतिकर्तव्यता तु काचन नाम्नायते, यथा-'सौर्य चळं निर्वपेद ब्रह्मवर्चसकाम' इति, तत्र विचायते-किमितिकर्तव्यताविरहितयथाश्रतप्र. धानमात्रसंपादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तदपि सेतिकर्तव्यताकं प्रधानमनुष्ठेयमिति, तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते निरङ्गस्य प्रधानत्याननुष्ठेयत्वाद्विध्यन्ताधिकरणसिद्धान्तन्यायेन प्राकृतवद्वैकृतं कर्म कर्तव्य

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656