Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 567
________________ न्यायमअर्याम् यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्कमानाः के चन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते, इयतस्तु पूर्वसूत्रानुवृत्त्या. ऽपि सिद्धर्मन्दफलमेव यथोक्तोपपन्नवचनं भवेदिति समस्तातिदेश एव वरम् , न च तत्रापि वादजल्पयोः साम्यं गम्यमानार्थम् , अतिदेशाच्छौत एवार्थों ऽतिदिश्यते न गम्यमानः तत्कृत एव च तयोर्भेद', तया च प्रमाणतर्क साधनोपा. लम्भ इत्यत्र गम्यमानोऽर्थोऽभिप्रायनियमः स नातिदिश्यते, सिद्वान्ताविरुद्वः पञ्चावयवोपपन्न इत्यत्रापि बुद्धिपूर्वजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपो गम्यमानोऽर्थः सोऽपि नातिदिश्यत इति कुतस्तयोरविवेकः, अत एव च बुद्धिः पूर्वक प्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् । “भवत्वेवं छलादीनां त्वसदुत्तरत्वात्कथमिव साधनोपालम्भहेतुत्वम् , परपक्षपतिक्षेपद्वारकमिति चेन्नासत्तरत्वेन 'पतिपक्षेऽपि तेषामसामोदेवमपि च साधनग्रहणम. नर्थकमेवेति" सत्यमेवं किन्तु कस्यांचिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्व. ज्ञानरक्षायै तान्यपि व्याप्रियन्ते, यदा जानन्नपि परपक्षकशिमानं स्वपक्षे द्रढिमानं च कचिदवसरे परप्रयुक्त साधने दूषणं सपदि न पश्यति स्वपक्षसाधनं च झगिति न स्मरति तदा छलादिभिरप्युपक्रम्य परमभिभवत्यात्मानं च रक्षतीति । ___ "ननु यदि परश्छलादीनि जानीयात्तेषु चानुरूपमुत्तरमभिदधीत कथं जीयेत प्रत्युत जयत्येव" सत्यं तथाप्येकान्तपराजयाद्वरं सन्देह इति युक्तमेव तत्प्रयोगेण स्फुटाटोपकरणम् । ___ "नन्वीशि प्रयोजनानि जिगीषतो जजस्य जनपदसदसि भवन्ति तस्यापि न निपुणमतिसदसि मुमुक्षोस्तु दरापेतैव कथेयमिति कथमिह मोक्षशास्त्रे जल्पाद्युपदेशः” नैतदेवम् , मुमुक्षोरपि कचित्प्रसङ्ग तदुपयोगात् , यथोक्तं तत्त्वाध्य. वसायसंरक्षणासीनमनेकशिष्यगणोपास्यमानं रहस्यतत्त्वमुपदिशन्तं शान्त. मानसमाचार्यमनार्यः कश्चिद्विपश्चिदाभासः कुतश्चिदागत्य दुरधिगतकतिपयाक्षरपरिचयजनितगुरुतरगवंगद्गदया गिरा भोस्तपखिन्किमाख्यायते हू. ङ्कारमान्वीक्षिकी सरलमतिप्रियेयं विद्या क्ष वेदाः क्व वेदप्रामाण्यं कात्मज्ञानं कापवर्ग इत्यादि मन्दं विहस्य सहस्यसहसादृष्टमेघ इव प्रकटितकाण्ड. दण्डकाशनितम्बवित्रासिताश्रममृगवर्गमुद्राहयन्नाकुलयति, तदा जगज्जालमि. न्द्रजालपण्डितविलसितमिति जाननप्याशाभ्यो यदि तदुपेक्षते न तिरस्करोति सद्यः सम्यक साधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति तदा तस्मिन् गते तत उत्थाय शिष्यगणा ब्रूयुः कष्टमस्थाने क्लिष्टाः स्मः, यो ऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः । अद्य त्वागत्य सोऽन्येन पण्डितन पराजितः ।।

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656