Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
हेत्वाभासप्रकरणम् ।
१६५
कालान्तरे सपक्षविपक्षान्यतरवर्गानुप्रवेशिना भवितव्यमेव, विमत्यवस्था या तु पृथगेव ताभ्यामसाविति न तत्र वर्तमानो हेतुरनैकान्तिकीभवति, एतेनेश्वरा. धनुमानानामप्यनेकान्तिकत्वमपाकृतं वेदितव्यम् , तस्मान्नानकान्तिकत्वेनागमकं मूतत्वमपि त्वन्यथासिद्धत्वेनैवेति ।
"नन्वेवमपि परमाणुप्रसाधनानुमानमहिमहतशक्तितया मूर्तत्वमनित्यत्वसिद्धावक्षमं जातमिति ततश्च कालात्ययापदिष्टत्वान्नान्यथासिद्धतामधिगच्छेत्"
नैतदेवम् कालात्ययापदिष्टो हि प्रत्यक्षागमापहृतविषय उच्यते अनुष्णः कृष्णवर्मा मदिरा द्विजैः पातव्येत्यादौ दर्शितो यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स इति, न च परमाणुषु परमाणुतयैव सततपरोक्षेषु प्रत्यक्षमनित्यताविपर्ययग्राहि प्रवर्तितुं शक्तमागमस्तु नास्त्येवेति कुतः कालात्यया. पदिष्टता। __"ननु किमिदमवनिपतिवचनमुत वैदिकी चोदना यत्प्रत्यक्षागमयोरेव बा. धकत्वमनुमानं प्रति नानुमानान्तरस्येति, परमाणुप्रसाधनानुमानं हि दृढमह. ढस्य तदनित्यतानुमानस्य मूर्तत्वादेयदि बाधकं स्यात्को दोषः स्यादिति
अथ मनुषे-नियम एवेष प्रत्यक्षानुमानयोविरोधे प्रत्यक्षमेव बलीय इति तदेवानुमानस्य बाधकमुचितं नानुमानान्तरमिति
तदसत् अलातचक्रादौ प्रत्यक्षमप्यनुमानेनानन्यथासिद्धेन बाध्यत एव ।
ननु भ्रमणविरतो परिमितपरिमाणोल्मुकग्राहि प्रत्यक्षमेव तत्र प्रत्यक्षस्य बाधकं नानुमानमिति,
मैवम् अनवरतपरिभ्रमणसमुद्भूतचक्रावभाससमय एवानुमानेन तद्मान्ततानिश्चयात् ,
पूर्वप्रवृत्तमचक्राकारतदलातपरिच्छेदि प्रत्यक्षं बाधकमिति चेन्न,
पूर्वप्रवृत्तत्वेनैवातिक्रान्तत्वात् , तस्मादनुमानमेव चक्रज्ञानबाधकम् एवं चा. नन्यथासिद्धमनुमानमपि प्रत्यक्षस्य बाधकं भवति, यच्चानन्यथासिद्धतया मूल. स्तम्भभूतमखिलानुमानप्रतिष्ठायतनं प्रत्यक्षमपि बाधते तदनुमानस्य तपस्विनः कथं न बाधकम् , अतश्च प्रत्यक्षागमग्रहणस्योपलक्षणार्थत्वादनुमानं बाधितमपि कालात्ययापदिष्टमेवेति" ___ तदेतदसमीचीनम् अनुमानादेबर्बाध्यबाधकभावानुपपत्तः, सर्वत्र खल प्रमाणाभासरूपं बाध्यते न तु प्रमाणं नाम शक्यते बाधितुमलातचक्रादावपि प्रत्यक्षाभासस्य बाधकमनुमानं न प्रत्यक्षस्य एवमत्राप्यनुमानाभासस्थ बाध्यता नानुमानस्य , तदिदानीमनुमानाभासत्वमस्य किंकृतमिति चिन्त्यताम . "स्वलक्षणवैधुर्यादिति चेत्" किमनुमानान्तरेण बाधकेन, तद्बाध्यतया तु तदाभासत्वकथनमितरस्यापि तादृशमेव, “परमाणुषु प्रसाधनानुमानमनन्य.
Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656