Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 584
________________ छलप्रकरणम् । उच्यते प्रमाणे तर्हि प्रत्यक्षादिविशेषनिरपेक्षं कथं प्रमाणसामान्यं नोदाहतम्, न च तत्सामान्यादन्यत्रापि तथाऽस्त्विति वक्तव्यम् , न हि चाक्षुषेण प. श्चाशद्भवितुमर्हति(?) तस्मान्नैवं वक्तुं शक्यम् , यथा विरुद्धादिविशेषरूपरहितमप्रयोजकत्वं हेत्वाभासे सामान्यरूपं दृश्यते तथा प्रमाणेष्वपि प्रत्यक्षादिविशे. षरूपरहितं तद्दश्यतां यथा वा प्रमाणेषु तन्न दृश्यते तथा हेत्वाभासेष्वपि मा दर्शीति वस्तुस्वभावानामनुयोगक्षेत्रताऽनुपपत्तः, ___ अपि चाप्रयोजकत्वं सामान्यं विरुद्धादिविशेषेष्विव तद्रूपरहितेषु स्वविशेषे. ध्वपि संभवद् दृश्यते, अत एव तदपि स्वविशेषनिष्ठमेवोदाहृतम् अनित्याः प. रमाणवी मूर्तत्वादिति न त्वाकाशवदनवलम्बनमेव किंचिदप्रयोजकत्वसा. मान्यमिति, तस्मात्सुष्ठुक्तं न सामान्यलक्षाणे शक्य मुदाहर्तुमिति । एवं सामान्यलक्षणमभिधाय च्छलस्य विभागमाहतत्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥ गौ. सू. अ. १ आ. २ सू. ११।। निगदव्याख्यातं सूत्रम् , विभागसामान्यलक्षणयोश्चोपदेशपौर्वापर्यनियमो नास्तीति पूर्वमेवोक्तम्। वाक्छ ललक्षण । अथ विभागक्रमेण विशेषलक्षणान्याहतत्राविशेषाभिहिते ऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥ गौ सू. अ. १ आ. २ सू. १२ । सम्भवद्विशेष्यविशेषणसाधारणार्थसमर्पणकौशलशालिनि श्लेषालंकारतावति शब्द प्रयुक्ते सति वक्तुरभिप्रेतमर्थमपहनुत्य ततोऽर्थान्तरं परिकल्प्य तनिषेधवचनं वाचि निमित्तभुतायां छलं वाक्छलम् , नवकम्बलो ऽयं माणवक इति नवः कम्बलो ऽस्य नव कम्बला अस्येति च विग्रहदशा दृश्यमानविशेषमपि समासपदमिदमर्थद्वयेऽप्यविशिष्टम् , तत्राभि नवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नं च निहनुत्य नवसंख्यासम्बन्धमध्या. रोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते कुतोऽस्य नव कम्बला इति, तदेतत्साधारणशब्दे वाचि छलं वाक्छलमिति, यथा च कस्यांचिदवस्थायां जल्पादो छलादिप्रयोगो युक्त इति तद्व्युत्पादनमेवं परप्रयुक्तस्यापि सतश्छलादेः प्रति. समाधानमभिधेयमिति तदपि व्युत्पाद्यते, नव कम्बला अस्येति मम विवक्षितमिति कुतः प्रतिपन्नमायुष्मता, किमयमभिनवकम्बलयोगप्रतिपादको न भवत्येव बहुव्रीहिः पक्षद्वये ऽपि च सम्भ. २२

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656