________________
छलप्रकरणम् ।
उच्यते प्रमाणे तर्हि प्रत्यक्षादिविशेषनिरपेक्षं कथं प्रमाणसामान्यं नोदाहतम्, न च तत्सामान्यादन्यत्रापि तथाऽस्त्विति वक्तव्यम् , न हि चाक्षुषेण प. श्चाशद्भवितुमर्हति(?) तस्मान्नैवं वक्तुं शक्यम् , यथा विरुद्धादिविशेषरूपरहितमप्रयोजकत्वं हेत्वाभासे सामान्यरूपं दृश्यते तथा प्रमाणेष्वपि प्रत्यक्षादिविशे. षरूपरहितं तद्दश्यतां यथा वा प्रमाणेषु तन्न दृश्यते तथा हेत्वाभासेष्वपि मा दर्शीति वस्तुस्वभावानामनुयोगक्षेत्रताऽनुपपत्तः, ___ अपि चाप्रयोजकत्वं सामान्यं विरुद्धादिविशेषेष्विव तद्रूपरहितेषु स्वविशेषे. ध्वपि संभवद् दृश्यते, अत एव तदपि स्वविशेषनिष्ठमेवोदाहृतम् अनित्याः प. रमाणवी मूर्तत्वादिति न त्वाकाशवदनवलम्बनमेव किंचिदप्रयोजकत्वसा. मान्यमिति, तस्मात्सुष्ठुक्तं न सामान्यलक्षाणे शक्य मुदाहर्तुमिति । एवं सामान्यलक्षणमभिधाय च्छलस्य विभागमाहतत्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥
गौ. सू. अ. १ आ. २ सू. ११।। निगदव्याख्यातं सूत्रम् , विभागसामान्यलक्षणयोश्चोपदेशपौर्वापर्यनियमो नास्तीति पूर्वमेवोक्तम्।
वाक्छ ललक्षण । अथ विभागक्रमेण विशेषलक्षणान्याहतत्राविशेषाभिहिते ऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥
गौ सू. अ. १ आ. २ सू. १२ । सम्भवद्विशेष्यविशेषणसाधारणार्थसमर्पणकौशलशालिनि श्लेषालंकारतावति शब्द प्रयुक्ते सति वक्तुरभिप्रेतमर्थमपहनुत्य ततोऽर्थान्तरं परिकल्प्य तनिषेधवचनं वाचि निमित्तभुतायां छलं वाक्छलम् ,
नवकम्बलो ऽयं माणवक इति नवः कम्बलो ऽस्य नव कम्बला अस्येति च विग्रहदशा दृश्यमानविशेषमपि समासपदमिदमर्थद्वयेऽप्यविशिष्टम् , तत्राभि नवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नं च निहनुत्य नवसंख्यासम्बन्धमध्या. रोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते कुतोऽस्य नव कम्बला इति, तदेतत्साधारणशब्दे वाचि छलं वाक्छलमिति, यथा च कस्यांचिदवस्थायां जल्पादो छलादिप्रयोगो युक्त इति तद्व्युत्पादनमेवं परप्रयुक्तस्यापि सतश्छलादेः प्रति. समाधानमभिधेयमिति तदपि व्युत्पाद्यते,
नव कम्बला अस्येति मम विवक्षितमिति कुतः प्रतिपन्नमायुष्मता, किमयमभिनवकम्बलयोगप्रतिपादको न भवत्येव बहुव्रीहिः पक्षद्वये ऽपि च सम्भ.
२२