________________
न्यायमअर्याम् यच्च किं चिदभिधेयमत्र तत्सर्वमुक्तमनुमानलक्षणे । अप्रयोजकनिरूपणे पुनः किंचनोदितमतो विरम्यते ॥ हेत्वाभासास्त एते ऽवगतिनियमितानन्यसङ्कीर्णरूपा निर्णीताः पञ्च ये ऽर्थ विदधति महती शुद्धिमभ्यस्यमानाः। पक्षादो वृत्तिभेदाकलनगुरुतरक्लेशनिष्पद्यमाना नेयत्ता त्वेतदीया क चन फलवती नाहता तेन तज्ज्ञाः ।।
इति (१३) हेत्वाभासपदार्थः समाप्तः ।
अथ च्छलनिरूपणम् । तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम् , तदङ्गभूतानि च्छलजातिनिग्रहस्थानानि, यद्यपि च वादे केषां चिदभ्यनुज्ञानमस्ति तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदोपयिकतया तत्स्वरूपनिरूपणं युक्तमित्युद्देशक्रमेण च्छलस्य तावलक्षणमाह
वचनविघातो ऽर्थविकल्पोपपरया च्छ लम् ।।
गौ. सू. अ. १ आ. २ सू १० । छलस्य भेदवत्त्वात्सामान्यलक्षणानि च वक्तव्यानि तानीह सर्वाणि स्व. कण्ठेन किल तत्पूर्वकमनुमानमित्यत्र त्रिचतुराक्षरसमपितापरिमितविषयवि. तण्डानुमानलक्षणलब्धनिरतिशयसूत्रकरणकौशलस्य मे किमधुना शिष्यजन. मनःक्लेशकारिणा संक्षिप्ताभिधानदोहदेनेति मन्यमानः सूत्रकृदुक्तवान् तत्र वचनविघात इति सूत्रं सामान्यलक्षणप्रतिपादकम् , परस्य वदतो वचनविघातो ऽभिधाननिरोधः छलम , किमास्यपिधानादिना नेत्याह, अर्थविकल्पोपपत्त्येति, वक्तुरनभिप्रेतमर्थात्तदुक्ते वचसि समारोप्य तनिषेधं छलवादी करोति, कथमर्थान्तरारोपणमिति चेद् , अर्थविकल्पोपपत्त्या विकल्पमानार्थघटनयेत्यर्थः,
किमुदाहरणं विशेषलक्षणेषु वक्ष्यामः, इहैव कस्मानोच्यते असंभवादिति ब्रूमः, न हि निविशेषं सामान्यमुपपद्यत इति तदुदाह्रियमाणं बलाद्विशेषनिष्ठमे. वावतिष्ठते, अन्येष्वपि गौन पदा स्प्रष्टव्येति सामान्योपदेशेषु नामूर्त्तायामाकाशनिर्विशेषवपुषि जातो स्पर्शप्रसक्तिस्तन्निषेधो ऽवकल्पते किं तु व्यक्तिष्वेवेति विशेषविषय एव सर्वत्र क्रियायोग इति तत्रैवोदाहरणवर्णनं युक्तम् , ___"कथं तर्हि सकलहेत्वाभाससार्थसामान्यलक्षणमप्रयोजकमनपेक्षितसव्य. भिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दर्शितमनित्याः परमाणवो मूर्तत्वाद् घटवदिति"