________________
हेत्वाभासप्रकरणम् ।
हेत्वाभास कुटुम्बकस्य तदिदं सर्वस्य साधारणं रूपं यद्यपि लक्षणान्तरकृतो भेदस्तथा नान्यतः । सामान्यं तु विशेषरूपरहितं नास्ति प्रमाणं यथा मा भूत्र तथेति नास्य विषयश्चोद्यस्य वस्तुस्थितिः ॥ अथ बाधितलक्षणम् ।
काळास्ययापदिष्टः कालातीतः ॥ गौ. सू. अ. १ आ. २ सू. ९ । यथाप्राप्तं हेतुप्रयोगकालमतीत्य यो हेतुरपदिश्यते स कालात्ययापदिष्टः कालातीत इत्युच्यते ।
तत्र केचिदाचक्षते - " प्रतिज्ञानन्तरं हि हेतुः प्रयोक्तुं युक्तः तत्र यः प्रति• ज्ञायाः पूर्वमेव दृष्टान्तवचनादेरप्यूर्ध्वं वा प्रयुज्यते स कालात्ययापदिष्ट” इति । तदनुपपन्नम् - अक्षतप्रतिबन्धस्य साध्यावगतिकारिणः । क्रमातिक्रममात्रेण न हेत्वाभासता भवेत् ॥
कियांश्चैष दोषः पदान्तरव्यवहितोच्चारणं नाम, व्यवहितमपि येन सह समुचित समयमन्वेतुमधिकृतमितरदतिनिकटपठितमपि पराणु दवीयसा ऽपि तेनैव संबन्धमनुभवति यथा
असा पथि गच्छन्तीमौषधीं दीर्घलोचनाम् । दृष्टवानसि केदारं यो लुनासि मम प्रियाम् ॥ इति ।
अप्राप्तकालमेव तत्कथितं पृथगेव निग्रहस्थानम्, तच्च पुनरुच्यमानं न कञ्चन स्वार्थमावहति तस्मादपव्याख्यानमेतत् ।
अपर आह- "सविशेषणम्य हेतोः प्रयुज्यमानस्य यस्य विशेषणं कार्यकाल - मत्येति न तत्पर्यन्तमवतिष्ठते स कालात्ययापदिष्ट इति, यथा कालान्तरस्थायी शब्दः संयोगव्यङ्ग्यत्वाद्रूपवदिति, अत्र न व्यङ्ग्यत्वमात्रं हेतुत्वेन विवक्षितमपि तु सविशेषणं संयोगव्यङ्गत्वं स चायं संयोगो व्यञ्जके दृष्टान्तधर्मिणि रूपे तदवगतिपर्यन्तस्थितिरुपलभ्यते दीपादिसंयोगः, साध्यधर्मिणि तु शब्दे न तदवस्थानमिति दूरतो हि दारुपरशुयोगविच्छिन्ने छेत्रा पुनरुद्यम्यमाने परश्वधे श्रूयते शब्द इति तदुपलब्धिकाले तदत्ययात्कालात्ययापदिष्टोऽयं हेतुरिति" एतदपि न संगतमसिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः ।
१६७
तस्मादयमर्थः हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव तमतीत्य प्रयुज्यमानः प्रत्यक्षागमबाधिते विषये वत्तमानः कालात्ययापदिष्टो भवति तस्योदाहरणं पूर्वमेव प्रदर्शितम् ।
उष्णो न तेजोऽवयवी कृतकत्वाद् घटादिवत् । ब्राह्मणेन सुरा पेया द्रवत्वात्क्षीरनीरवत् ॥
•