SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ १६६ न्यायमअयाम् थासिद्धमिदं तु मूर्तत्वमन्यथासिद्धमिति चेत्" आगतोऽसि मदीयं पन्थानमन्यथासिद्धत्वादेव च तदप्रामाण्ये सिद्धे किं तद्बाधया, "अन्यथासिद्धत्वमेव कथमिति चेत्" न घटादौ मूर्तत्वप्रयुक्तमनित्यत्वमपि तु कार्यत्वप्रयुक्त कार्यस्य कारणविभागाद्वा तद्विनाशाद्वा विनाशोपलब्धेः कार्यत्वमेवानित्यत्वप्रयोजकमुक्तं न मूर्तत्वम , मूर्तत्वे तु नित्यताक्षेपिणि परमाणुतैव हीयेतेत्युक्तम्, तस्मान्न मूर्त. त्वमनित्यतायाः कारकं ज्ञापकं वेति भवत्यन्यथासिद्धम् , _ "भवत्वेवम् असिद्धवर्गे तु कथमेष हेतुर्गण्यते" साध्यधर्मप्रयुक्ता धर्मिणि वृत्तिरस्य नास्तीति चेद्, यद्येवं पञ्चानामपि तत्प्रयुक्तवृत्तिरहितत्वादसिद्ध एतेको हेत्वाभासः स्यात् । अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवान्तररूपभेदनिबन्धनानकान्तिकस्वादिव्यपदेशपञ्चकभाज इमे हेत्वाभासा इष्यन्ते, हन्त तर्हि प्रकृतो ऽयं हेतुर्मूतत्वादिति किमनैकान्तिक उच्यतामथ कालात्ययापदिष्ट आहो स्विविरुद्ध उत प्रकरणसम इति, नैषामन्यतमो ऽपि वक्तुं शक्यते एतल्लक्षणानुपपत्तरिति चेत्, काममसिद्धो ऽपि मा वादि पक्षे वर्तमानत्वेन तल्लक्षणस्यानुपपत्तेरिति, आस्तां तहि षष्ठ एवायं हेत्वाभासः सम्यग् हेतुतां तावद्यथोक्तनयेन नाश्नुत एव न च तेष्वन्तर्भवतीति बलात् षष्ठ एवावतिष्ठते । , कथं विभागसूत्रमिति चेद् , अतिक्रमिष्याम इदं सूत्रम् , अनतिक्रामन्तः सुस्पष्टदृष्टमपीममप्रयोजक हेत्वाभासमपन्हुवीमहि न चैवं युक्तमता वरं सूत्रा. तिक्रमो न वस्त्वतिक्रम इति, - अथ वा न सूत्रकारनियमोल्लङ्घनं श्रेयः प्रमाद्यन्खलु परिमितदर्शी माहशो ऽन्यथा ब्रूयान न्यायमहोदधेः पारदृश्वा भगवाक्षपादः, तदेनं हेत्वाभासमसिद्धवर्ग एव निक्षिपामः । "ननु पक्षे वर्तमानः कथं तत्र निक्षेपतुं शक्यते" यथा साध्यधर्मप्रयोजकतयापक्षे ऽपि वर्तितुं युक्तम् तथा न वर्तत एवायं तत्रेत्यदूरविप्रकर्षेण भवत्येवा. यमसिद्धः, अत एवायमन्यथासिद्ध इत्युच्यते, यथा सिद्धः सिद्धो भवति तथा न सिद्धः अन्यथा तु सिद्ध इत्यनया नीत्योत्तानवृत्तिमात्रलम्भेऽप्ययमसिद्ध एव, अन्येषु तु हेत्वाभासेषु भङ्गया ऽपि नान्तर्भवतीत्युक्तमेतत्, अथ वा सर्वहेत्वा. भासानुवृत्तमिदमन्यथासिद्धत्वं नाम रूपमिति न षष्ठो ऽयं हेत्वाभासः, तत्त क चित्केवलमेव दृश्यते व चिद्यभिचारादिरूपान्तरसहचरितमतश्च व्यभिचारादिरूपापेक्षमेव पञ्चत्वमुपदिष्टवान्मुनिरिति न विभागसूत्रविरोध इत्यलमतिविस्तरेण । युक्तस्तस्मादन्यथासिद्धनामा हेत्वाभासः सो ऽयमेकप्रकारः। यस्योत्ताना विद्यमाना ऽपि पक्षे वृत्तिन स्यात्साध्यधर्मप्रयुक्ता ।।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy