________________
१७०
न्यायमअर्याम्
व्रति, यदि तावदर्थप्रकरणादिसामर्थ्य पर्यालोचनया ऽवसितनियताभिधेय · वृत्तिशब्दव्यवहाराभिज्ञोऽसि तदर्थसिद्धमर्थमभिनवकम्बल संबन्धमेव बुद्ध्वा तूष्णीमास्स्व |
अथ शुष्कतार्किक कुटुम्ब गर्भदास इव शब्दवृत्तानभिज्ञ एव त्वं तर्हि पक्षद्वयसंभवे संशयानो मामेव पृच्छ किं ते विवक्षितमिति निषेधकः सन्वक्तुमुपक्रमसे |
“ननु त्वमप्यक्षप्राप्त्यादिफलपर्यन्तशब्दप्रयोगप्रवृत्तः किमिति साधारणमिदमन्धपदप्रायं बचः प्रयुङ्क्षे "
यि बालिश तवैतदन्धपदम् - अर्थप्रकरणाधीन नियत स्वार्थवृत्तिताम् । यो न जानाति शब्दानां स एवमपभाषते || इदमर्थद्वये तावत्साधारणपदं भवेत् । जातिशब्दाः पुनर्व्यक्तिसहस्राक्षेपकारिणः ॥ स्पृशन्ति नियतं वाच्यं ते ऽपि प्रकरणादिना । ब्राह्मणान्भोजयेत्यादौ तद्वालेन न शिक्षितम || तस्माच्छब्दार्थसंदेहे प्रयोक्ता वत्स पृच्छयते । न त्वर्थान्तरमारोप्य तन्निषेधो विधीयते ॥
सामान्यच्छललक्षणम् ।
संभवतोऽर्थस्यातिसामान्ययोगदिस भूतार्थ कल्पना सामान्यच्छचम् ।। गौ. सू. अ. १ आ. २ मृ. १३ ।
अतिव्यापकं सामान्यमतिसामान्यं तद्योगात्तत्सम्भवात्कचिद् व्यक्तार्थस्य कस्य चित्संभवतः संभाव्यमान निष्पत्तेर्वक्त्राऽभिहितस्य सतो या ऽसद्भूतार्थकल्पना वक्तुरनभिप्रेतातिसामान्य हेतुत्वकल्पना तया च प्रत्यवस्थानं तत्सामान्यनिमित्तं छलं सामान्यच्छलम् ।
यथा क चिदुचितोपचारवचनाराध्यमानगुणवद्ब्राह्मणकुले तत्कथाबहुले राजकुले कश्चित्सुजन्मो कंचिदग्रजन्मानं स्तौति श्रहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इति, तस्मिन्प्रसङ्गे तथाविध एवापरस्तमुत्साहयन्कथयति सम्भवति ब्राह्मणे विद्याचरणसम्पदिति, तत्र पिशुनश्छलवाद्याह यदि ब्राह्मणे विद्याचरणसम्पत्सम्भवति तर्हि व्रात्ये ऽपि ब्राह्मणत्वजात्यनपनयनात्संभवेदिति तत्रेदमतिव्यापकं ब्राह्मणत्वसामान्यं यतो विद्याचरणसम्पदमत्येति च स्पृशति तद्योगाद् ब्राह्मणव्यक्तौ सम्भवतो विद्याचरणसम्पद्रूपस्यार्थस्य वक्त्राऽभिहितस्य सतस्तत्र वक्त्रभिमतामेवातिसामान्यहेतुतामारोप्य च्छलवादी प्रत्यवतिष्ठत इति,