________________
छलपकरणम् ।
अत्रोत्तरम् केन ब्राह्मणत्वस्य हेतुत्वमभिहितं यदनैकान्तिकीकुर्वन्प्रत्यवस्थितोऽसि, संभावनावचनमिदं स्तुत्यर्थमुपन्यस्तम्, विद्याचरणसंपदः पात्रं हि ब्राह्मणाः सति ब्राह्मणत्वे पूर्वजन्मोपचितसुकृतपरिणामाद्भवति विद्याचरणसम्पत्, न तु तदेव तस्या हेतुरिति, यथा सम्भवन्त्यस्मिन्क्षेत्रे शालय इति क्षेत्रप्रशंसापरे वाक्ये प्रयुक्ते नैवं वक्तुमापद्यते यदि क्षेत्रमेव शालिसम्भवहे. तुस्तत्र विनापि हलबलीवादिसामग्रयां महत्यवग्रहे ऽपि शालयो ऽस्मिन्सम्भवेयुरिति, तदिदमर्थवादादिगत्यनभिज्ञस्य भवतो भाषितमित्यास्तामेतत्,
इदं तु भवन्तं पृच्छामि भो महात्मन्स्वभावशुद्धा परिनिश्चितार्थसंस्पर्शिनी पुण्यसहस्रलभ्या। केनेदृशी सर्वजनानुकूला कल्याणिनी ते निरमायि वाणी ॥
___ उपचारच्छल लक्षणम् । धर्मविकल्पनिर्देशे ऽर्थसदभावप्रतिषेध उपचारच्छलम् ।।
गौ. सू. अ. १ आ. २ सू. १४ । अभिधानस्य धर्मो ऽनेकप्रकारो मुख्यया वृत्त्या गोण्या वा लाक्षणिक्या वा यदर्थे प्रत्यायनं तदनेन विकल्पमानेन धर्मण गौणेन लाक्षणिकेन वा निर्देशे प्रयोगे कृते यो ऽर्थसद्भावप्रतिषेधो मुख्यार्थनिषेधः स उपचारनिमित्तं छलमुपचारच्छलम्।
यथा मञ्चाः क्रोशन्तीत्युक्ते च्छलवाद्याह कथमचेतनाः काष्ठरचनात्मानो मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषा एते क्रोशन्ति न मचा इति । __ अत्र समाधिः-वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिः तत्र न केवलयैव मुख्यया वृत्त्या शब्दाः प्रवर्तमाना दृश्यन्ते वृत्त्यन्तरव्यवहारस्यापि सुप्रवर्तितत्वात् , न च निनिमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयं सहचरणादिसूत्रनिवेदितनिमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वादस्य प्रयोगस्य स्थानादयं तद्वदुपचारः,
"सत्यं गौणलाक्षणिकादिशब्दप्रयोगावगतिबाह्य एव य एवं प्रत्यवतिष्ठते, गौणलाक्षणिकयोः कथं विशेष इति एतत् कथ्यताम्" सत्यं गोशब्दः स्वार्थमभिधाय सास्नादिमन्तं तदीयान् गुणनेव जाड्यमान्द्यादीन् न मूत्रादील्लक्षयति न तावत्येव विरमति स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तते, गौर्वाहीक इत्येवं प्रयुज्यमानः स गौणो भवति, यस्तु स्वार्थाभिधानानन्तरं त. दितरमर्थ गुणमगुणं वा लक्षयत्येव न सामानाधिकरण्येन परत्र प्रयुज्यते शब्दः स लाक्षणिको भवति गङ्गायां घोषः प्रतिवसतीति, तथा चोकं गौसे ऽपि प्रयोगेन बनणेत्य(यमित्य)लं शास्त्रान्तरोद्गारगहनाभिः कथाभिः