Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 577
________________ न्यायमअर्याम् कृतकवचनाचातुर्य तैः प्रदर्शितमात्मनो भवति न पुनः शुद्धि का चित्प्रमेयदिशः कृता । कचिदवसरे त्वेवंप्रायाः परभ्रमकारिणः किल सफलतां दध्युर्जल्पे यथा कथितं पुरा ॥ तत्र त्वेतान्कथयति परः प्राज्ञमानी यदा वा तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः । द्राघीयस्या तदलमनया तार्किकंमन्यगोष्ठ्या हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव ॥ असिद्धलक्षणम् । साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ गौ. सू. अ. १ आ. २ लू ८ । अन्यतरवादिप्रसिद्धमन्यतरं प्रति यत्साधयितुमुपादीयते रत्साध्यम् तदविशिष्ट हेतुः साध्यसमः, कथं साध्येन तुल्यता हेतोरिति चेदाह साध्यत्वादिति, यथा साभ्यमसिद्धत्वात्साध्यं तथा तत्सिद्ध्यर्थमुपात्तो हेतुरपि यो ऽसि - द्धत्वात्साभ्यः स साध्याविशिष्टत्वात्साध्यसम इत्युच्यते, १६२ एतच्चान्यतरासिद्धस्यैव लक्षणम् यथा मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वाद् घटवदिति, न चाक्षुषत्वादेरुभयासिद्धस्य, न हि तस्य साध्यत्वं सम्भवतीत्यर्थः, सकलासिद्धभेदसंग्रहाय साध्यत्वादित्येतत्पदरहितं साध्या विशिष्ट इत्येवासि द्धलक्षणमुपवर्णनीयम्, साध्यस्य च रूपद्वयस्यासिद्धत्वं साध्यत्वं च तत्रासिद्धत्वमेव, तदविशिष्टत्वकारणमिहाश्रीयते सर्वासिद्धभेदसाधारणं न तु साध्यत्वमन्यतरासिद्धैकलग्नमिति, एवं चासिद्धत्वमेवासिद्धस्य लक्षणमुक्तं भवति, पक्षधर्मत्वं यस्य नास्ति साध्ये धर्मिणि यो न वर्तते हेतुः सोऽसिद्ध इति, तस्य तु भूयांसो भेदा भवन्ति -- हेतुस्वरूपे तावदन्यतरस्य वादिनो द्वयोर्वा ज्ञानं संदेहो विपर्यय इति, तथा तदाश्रये अपि धर्मिण्येकस्य वा द्वयोर्वा तथैवाज्ञानसंदेह विपर्यया इति भूयसि च पक्षीकृते ऽर्थे तदेकदेशे कचिदुवृत्तिः तदितरत्रावृत्तिरिति, एकदेशवृत्तावपि द्वयोरेकस्य वा तथैवाज्ञानसंशयविपर्यया इति, एवंप्रकार भेदोदाहरणवर्णन मल्पप्रयोजनमिति न प्रस्तूयते, "अन्यतरासिद्धेर्न विवदन्ते प्रमाणस्यापक्षपातित्वाद्यदि तावत्कृतकत्वं शब्दे प्रमाणतो निर्णीतं तहि मोमांसकस्यापि तार्किकस्येव तत्सिद्धमेव, अथ तत्र कृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणं तदा तार्किकोऽपि तूष्णीमास्तां द्वयोरप्यसौ चाक्षुषत्वादिवन्न सिद्धयेद् हेतु:, वाङ्मात्रेण त्वसिद्धिक


Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656