________________
न्यायमअर्याम्
कृतकवचनाचातुर्य तैः प्रदर्शितमात्मनो भवति न पुनः शुद्धि का चित्प्रमेयदिशः कृता । कचिदवसरे त्वेवंप्रायाः परभ्रमकारिणः किल सफलतां दध्युर्जल्पे यथा कथितं पुरा ॥ तत्र त्वेतान्कथयति परः प्राज्ञमानी यदा वा तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः । द्राघीयस्या तदलमनया तार्किकंमन्यगोष्ठ्या हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव ॥ असिद्धलक्षणम् ।
साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ गौ. सू. अ. १ आ. २ लू ८ ।
अन्यतरवादिप्रसिद्धमन्यतरं प्रति यत्साधयितुमुपादीयते रत्साध्यम् तदविशिष्ट हेतुः साध्यसमः, कथं साध्येन तुल्यता हेतोरिति चेदाह साध्यत्वादिति, यथा साभ्यमसिद्धत्वात्साध्यं तथा तत्सिद्ध्यर्थमुपात्तो हेतुरपि यो ऽसि - द्धत्वात्साभ्यः स साध्याविशिष्टत्वात्साध्यसम इत्युच्यते,
१६२
एतच्चान्यतरासिद्धस्यैव लक्षणम् यथा मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वाद् घटवदिति, न चाक्षुषत्वादेरुभयासिद्धस्य, न हि तस्य साध्यत्वं सम्भवतीत्यर्थः,
सकलासिद्धभेदसंग्रहाय साध्यत्वादित्येतत्पदरहितं साध्या विशिष्ट इत्येवासि द्धलक्षणमुपवर्णनीयम्, साध्यस्य च रूपद्वयस्यासिद्धत्वं साध्यत्वं च तत्रासिद्धत्वमेव, तदविशिष्टत्वकारणमिहाश्रीयते सर्वासिद्धभेदसाधारणं न तु साध्यत्वमन्यतरासिद्धैकलग्नमिति, एवं चासिद्धत्वमेवासिद्धस्य लक्षणमुक्तं भवति, पक्षधर्मत्वं यस्य नास्ति साध्ये धर्मिणि यो न वर्तते हेतुः सोऽसिद्ध इति,
तस्य तु भूयांसो भेदा भवन्ति -- हेतुस्वरूपे तावदन्यतरस्य वादिनो द्वयोर्वा ज्ञानं संदेहो विपर्यय इति, तथा तदाश्रये अपि धर्मिण्येकस्य वा द्वयोर्वा तथैवाज्ञानसंदेह विपर्यया इति भूयसि च पक्षीकृते ऽर्थे तदेकदेशे कचिदुवृत्तिः तदितरत्रावृत्तिरिति, एकदेशवृत्तावपि द्वयोरेकस्य वा तथैवाज्ञानसंशयविपर्यया इति, एवंप्रकार भेदोदाहरणवर्णन मल्पप्रयोजनमिति न प्रस्तूयते,
"अन्यतरासिद्धेर्न विवदन्ते प्रमाणस्यापक्षपातित्वाद्यदि तावत्कृतकत्वं शब्दे प्रमाणतो निर्णीतं तहि मोमांसकस्यापि तार्किकस्येव तत्सिद्धमेव, अथ तत्र कृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणं तदा तार्किकोऽपि तूष्णीमास्तां द्वयोरप्यसौ चाक्षुषत्वादिवन्न सिद्धयेद् हेतु:, वाङ्मात्रेण त्वसिद्धिक