________________
हेत्वाभासप्रकरणम् । थनमसांप्रतमतिप्रसङ्गादेव"
सत्यमेवं न सर्वदाऽन्यतरासिद्धस्य हेत्वाभासत्वमभिदध्महे किं तु कं चिकालमिति यदैकेन वादिना हेतो प्रयुक्त द्वितीयो वदति सम्प्रति न सिद्ध एष इति तदा हेतोः प्रयोगाद्वादिना तत्साधनमभिधेयमनभिधानात्स पराजीयते साधने तु तेनोक्ते तदसिद्धतोद्भावनवादी पराजीयते इति यावत्तत्सिद्धौ नोपन्यस्तं साध. नं तावदेवासावन्यतरसिद्धयनन्तरं तु सम्यग हेतुरुभयासिद्धो वा भविष्यतीति,
व्यधिकरणासिद्धस्तु यथोक्तभेदान्तर्गत एव, यथा नित्यः शब्दः काकस्य काष्योदिति,
क चित्पुनश्च व्यधिकरणासिद्धोऽपि भवति गमक इत्येके, तद्यथा बह. लबहलः प्रचलजलधरश्यामलवपुरम्बरतलमाक्रामन्धूमप्रबन्धः क्षोणीध्रक. न्दरादिविशेषधर्मत्वानवधारणेऽपि तत्र गमयितुमलमनलमिति, यथा वाऽ. निमानेष देशो धूमोपलब्धेरिति प्रयुज्यते तदोपलब्धेरात्मधर्मतया वैयधिकर. ण्येऽपि गमकताऽस्तीति ।
अन्यथासिद्धनिरूपणम् । अन्ये त्वन्यथासिद्धत्वं नाम तद्भेदमुदाहरन्ति यस्य हेतोमणि वृत्तिर्भवन्त्यपि साध्यधर्मप्रयुक्ता भवति न सोऽन्यथासिद्धो यथा नित्या मनःपरमाणवो मूर्तत्वाद् घटवदिति___"ननु कथमयमन्यथासिद्ध उच्यते किमिति सम्यग हेतुरेव न भवति किं परमाणुषु मूर्तत्वं न वर्तते किं घटादावनित्यतया व्याप्तं न दृश्यते किमाकाशादेः खपुष्पादेर्वा विपक्षान्न प्रच्यवते किं प्रत्यक्षेणागमेन वा बाध्यते किं प्रतिपक्षण प्रतिबाध्यते येनाभासतां प्रतिभजते" न प्रतिबन्धाभावात् ।।
"ननु पञ्चानां प्रतिबन्धलक्षणानां कतमदस्य श्लथीभूतम्" नान्यतमस्यापि शैथिल्यं ब्रमः, "तत्किं पञ्चस्वपि लक्षणेषु प्रतिबन्धः समाप्यते तानि चासो सन्त्येव न चैष प्रतिबन्ध इति कैतवम्" ____ उच्यते प्रयोज्यप्रयोजकभावेन साभ्यसाधनधर्मयोधू मामिवत्प्रतिबन्धोऽवधार्यते स चात्र प्रयोज्यप्रयोजकमावा नास्तीत्यत एवायमन्यथासिद्धोऽप्रयोजक इति कथ्यते, __ "कथं पुनरस्याप्रयोजकत्वमवगतम्" उच्यते मूर्तत्वं हि सर्वगतेतरद्रव्यपरिमाणविशेषादिधो वस्तुस्वभावमात्रनिबन्धनो न कृतकत्वादिवदनित्यतां प्र. याक्तमुत्तहते, तथा हि परमाणुषु सिद्धेषु सत्सु तत्र वर्तमान मूर्तत्वमनित्यतां साधयेदन्यथा त्वाश्रयासिद्धतामुपेयात् , सिध्यन्त एव सावयवका. यानुमानमार्गेण लोष्टविभागावभासमानभागपरम्परापरिकल्पनक्रमण वा पर.