________________
१६४
न्यायमअर्याम्
माणवो निरवयवाः सिध्यन्ति, सावयवत्वे तदवयवाः परमाणवो भवेयुन ते, तेषामप्यवयवान्तरपरिकल्पनायामप्यवयवानन्त्याविशेषात्सर्षपस्य मेरोश्च साम्यमापद्यते, न च तदस्ति, तदेवं निरवयवेषु परमाणुषु निसर्गसिद्धमनाश्रितत्वमतश्वाश्रयविनाशावयवविभागादिविनाशकारणाभावात्स्वाभाविकविनाशवा. दनिराकरणाच्च कथं परमाणूनां नित्यतां स्पृशेत् , मूर्तत्वं तु वस्तुधर्मत्वाद्भवपि प्रमेयत्वादिवन्न प्रयोजकम् , __इयांस्तु विशेषः-प्रमेयत्वमुभयपक्षस्पर्शादनकान्तिकं भवदप्रयोजकम् इदं तु मूर्तत्वमनित्यव्यतिरिक्तवस्त्वन्तरपरिचयविरहितमपि न प्रयोजकमिति ।
"नन्विदमपि प्रमेयत्ववद्विपक्षवृत्त्येव मूर्तत्वम् , क विपक्षे वर्तते ? परमाणु. ज्वेव, ननु तेषां पक्षीकृतत्वात्कथं विपक्षता ? न पुरुषेच्छानुरोधेन वस्तु विपरिवर्तते विपक्षो हि नाम स उच्यते यः सिषाधयिषितधर्माध्यासिततया दृढप्रमाणसिद्धः परमाणवश्चैतेऽनन्तरनिर्दिष्टनीतिक्रमेणानिर्णीतनित्यत्वाः परमार्थतो विपक्षा एवानित्यत्ववादिनः, स तु रागद्वेषकलुषितहृदयतया यदि तान्पक्षतया ब्रवीति ब्रवीतु नाम न तु सुस्पष्टासिद्धनित्यतानां परमाणूनां विपक्षभावो निवर्तते इति"
तदिदमनुपपन्नम् अनेन क्रमेण धूमानुमानस्याप्यनैकान्तिकत्वप्रसङ्गात् , धूमो हि महीभृति हुतवहविरहितवपुषि विपक्षे वर्तत एव, “न तत्र चित्रभानोरभावो निश्चित इति चेत्" किन्नु खलु सद्भावोऽस्य तत्र गृहीतः , तथा सति वा कृतमनुमानेन,
_ "अथ सत्त्वमसत्त्वं वा नावधारितमेव धराधरे धूमकेतोः” तर्हि संदिग्धा तत्र विपक्षता, निश्चितविपक्षवृत्तिवत् संशयितविपक्षवृत्तिरपिनानैकान्तिकतामतिवर्तत इति सर्वानुमानानामेव निवापाञ्जलिर्दत्तः स्यात् , न च वादिहृदय परिकल्पनोपारूढस्थितेरपि पक्षो नाम नास्ति तदभावे किमपेक्षःसपक्षविपक्षव्यवहारः, बुद्ध्यारूढत्वपक्षेऽपि न सपक्षविपक्षयोः पक्षत्वं न च वस्तूनामुभयात्मकता भवेत् , किं तु कं चित्कालमन्यतरासिद्धवद्विमतिपथापतितस्य वस्तुनः पक्षत्वमुपेयते, निर्णयजन्मना तु विमतिविरतो नूनमन्यतरवर्गपतितो ऽसौ भविष्यतीति सर्वथा न तस्यां दशायां तेनानैकान्तिकत्वोद्भावनं युक्तम् ,
"नन्वनेन पथा पृथककृते सपक्षविपक्षाभ्यां पक्षे न तत्रान्वयव्यतिरेकयोरन्यत. रस्यापि ग्रहणं भवेत् , सपने ह्यन्वयो गृह्यते विपक्षे च व्यतिरेकः, एष तु ताभ्याम. र्थान्तरमिति तत्रागृहीतान्वयव्यतिरेकात्मकनियमो हेतुः षण्ढ इव न पुत्रजन्मनि समर्थ एव साध्यसाधने भवेत्" अलमनया डिम्भविभीषिकया न हि सकलस. पक्षविपक्षसाक्षात्करणकेकोल्लासपुरःसरं व्याप्तिग्रहणमिति पूर्वमेव निर्णीतोऽयमर्थः, न च तद्वर्जमिति व्याप्तिग्रहणं भवति येन षण्ढसुतसाम्यचोदनाऽवकाशः स्यात् , सामान्येन हि व्याप्तिर्गृह्यमाणा तत्रापि गृहीता भवत्येव, तेनापि च