Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
वितण्डाप्रकरणम् । पक्षयोरन्यतरः स्यान्न ह्यवरुणो मित्रावरुणयोरन्यतर इत्युक्तमेव, पक्षो ऽपि च भवन्नेष न पक्षत्वादित्यनेन रूपेण हेतूक्रियते किन्त्वन्यतरत्वादि. तीत्थं च हेतूकरणे नैष दोष इति ।
सत्प्रतिपक्षस्योदाहरणान्तरम् ।। अपरमुदाहरणं सन्सर्वज्ञ. इतरतद्विपरीतविनिर्मुक्तत्वाद् घटवद् असन्सवंश इतरतद्विपरीतविनिर्मुक्तत्वात्खरविषाणवदित्यत्राप्याक्षेपप्रतिसमाधानप्रकारः पूर्ववदनुसरणीयो धयंसिद्धता च यत्नतः परिचिन्तनीया ।
सत्प्रतिपक्षोदाहरणान्तरदूषणम् । एवं जातीयक सूदाहरणं नानुमोदन्ते मतिमन्तः यत्र हि हेतुना स्वयः मथै सम्यगसम्यग्वा ऽनुमाय प्रमाता परप्रत्यायनाय तं हेतुं प्रयुजीत स प्रयुज्यमानो वस्तुबलप्रवृत्ततया हेतभवति हेत्वाभासीभवति वा तथा ह्या. रोहपरिणाहवति पुरो ऽवस्थिते धर्मिणि स्थाणुगतविशेषानुपलम्भादेकस्य पुरुष इति भवति प्रतीतिरितरस्य तु पुरुषगतविशेषानुपलब्धेः स्थाणुरिति भ. वति मतिः , एवं यदा ऽसावेकः पुरुषत्वसिद्धये परं प्रति स्थाणुधर्माग्रहणं हैतुत्वेन ब्यादितरो ऽपि पुरुषधर्माग्रहणेन स्थाणुतां प्रतिष्ठापयन्प्रत्यवतिष्ठते तदा स्वप्रतीत्यनुसरणपुरःसरसाधनाभिधानाद् भ्रान्तिसंभवाञ्च युक्तं तथाविधोदाहर. णकीर्तनम् , एवं नित्यःशब्दोऽनित्यधर्मानुपलब्धेराकाशवत् अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदित्यपि द्रष्टव्यम् , यस्तुन वस्तुमूलः केवलोत्प्रेक्षामात्रावलम्बन: स्वप्रतीतिषु न दृष्टपूर्वः किं तदुपन्यासेन, एतेन सद्वितीयप्रयोगा अपि प्रत्यक्ताः , यथा क चित्साधनप्रयोगे कृते सति तत्रैवं परः पत्यवतिष्ठते यथा पस्ततसाध्यधर्माधिकरणत्वशन्यधर्मिघटान्यतरसद्वितीयो घट: अनुत्पन्नत्वाकुड्यवदिति , यथा प्रस्तुतेन सिषाधयिषितेन धर्मेण शन्यो यः प्रकृतो धर्मो घटश्च तयोरन्यतरेण न सद्वितीयो ऽयं घटरूपो धर्मी तत्र हेतुरनुत्पन्नत्वं तस्य कुड्यादौ व्याप्तिरिति , सत्यं वदत यद्यस्ति लोके कचिदीडशः प्रती तिक्रमः घटश्च धर्मो धर्मिघटयोरन्यतरे। सद्वितीय इत्यत्रान्यतरशब्दः सा. मान्यवचनो ऽपि धर्मिणि व्याख्येयो न हि घट एव घटेन सद्वितीयो भवितुमहतीत्यलमलीककल्पनाकौशलप्रख्यापनेन ।
सम्यग्वा यदि वा अन्यथा विदधते ये हेतवः संविदं दृष्टाः स्वात्मनि ते प्रयोक्तमुचिताः कामं परज्ञप्तये। ये तु स्वप्रतिपत्तिमेव न तथा कर्त क्षमाः कल्पना
सामर्थोत्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम् ॥ ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रज्ञातिशयाभिधानदुर्विदग्धास्तथाविधानपि प्रयुञ्जते।
२१
Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656