Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 564
________________ निर्णयप्रकरणम् । १४९ सम्भवति, साधनोपालम्भलक्षणार्थावपि च पक्षप्रतिपक्षशब्दो विषयमभिवदितुं ननु शक्नुत इस्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ?". ___ उच्यते-पक्षमतिपक्षयोस्तु द्वयोरन्यतरत्रार्थेऽवधारणं भवति नेभियत्र, स एव च परमार्थतोऽर्थ इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्थपदोपादानम् । लक्ष्यमाणसाधनोपालम्भनिष्टत्वात्तु पक्षप्रतिपक्षशब्दयोर्विषयनिर्देशार्थमर्थपदमित्येके । “विमृश्येति किमर्थ" वस्तुस्वरूपकथनार्थमेव, अनुमानकरणको हि निर्णय इह लक्ष्यते इत्युक्तम् , अनुमानं च संशयविषये प्रवर्तते इति तर्कानन्तरमप्यनेनैवाशयेनास्योपादानम् , संशयादनन्तरं तर्कस्तांदूर्ध्व च निर्णयो दृष्टः प्रवर्तमानोऽतस्स तत्पूर्वक उच्यते। निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते । अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ।। "भवत्वेवमिदं तु चिन्त्यता-क नियमः किं विमर्श किं पक्षप्रतिपक्षयोः किं निर्णय इति, त्रये ऽपि च नोपपद्यते इति, न विमृष्यैव निर्णयः अविमृष्यापि भावात् , न पक्षप्रतिपक्षाभ्यामवेन्द्रियादेरपि तदुत्पादात , न निर्णय एव तर्कस्यापि क चिदनिवृत्ते." उक्तमत्रोद्देशसूत्रे तत्त्वज्ञानपदोपादानात्प्रमाणपदेन च तत्फलाक्षेपान्न निर्णयमात्रोद्दिष्टेन किमपि प्रयोजनं विशिष्टस्तु निर्णयो लक्षणत्वेन विवक्षितः। __ परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः । नियमत्रयमप्येतत्तस्मिन्न हि न युज्यते ।। न हि (न) विमृष्यैव भवन्ति विमर्शपूर्वकत्वात्परीक्षायाः, अनुमानं च सन्दिग्धे विषये प्रवर्तते इति प्रायेण तद्व्यवहारः। यद्यपि क्वचिदसन्दिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमनलानथिता. यामतकितोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पनमिव, तथाऽपि वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः, प्रकृतश्च निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुमन्यथा न्यायानुपरमादिति, शास्त्रे तु विनापि संशयादस्ति निर्णयः । यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशातिदेशाभ्यामभ्यधायि, तथापि नासौ शास्त्रीयो निर्णयः परीक्षाकार्यत्वात् , यस्तु शा. स्त्रत एव कचिद्विषयनिर्णयः स विमर्शवर्जमुत्पद्यते, वादे ऽपि विमर्शरहिते भवति निर्णयः, उभौ निश्चितौ वादं कुरुतः सन्दिग्धस्य तत्रानधिकारात् , "कथं तोष प्रवादः संशयच्छेदो वादस्य फलमिति? ” प्रथममुभयोरपि निश्चि. तयोर्वादप्रवृत्तावन्तराले बलादापतति युक्तिद्वयोपनिपातवतः संशय इति वस्तु. निर्णयावसानत्वाद्वादस्य संशयच्छेदफलत्वमाचक्षते।

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656