Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 560
________________ तर्कप्रकरणम् । पर्यायोपादानस्य प्रयोजनं वक्ष्यामः, तेनायं सूत्रार्थः-अविज्ञाततत्त्वे सामान्यतो ज्ञाते धर्मिण्येकपक्षानुकूलकारणदर्शनात्तस्मिन् सम्भावनाप्रत्ययो भवितव्य. तावभासस्तदितरपक्षशैथिल्यापादने तद्ग्राहकप्रमाणमनुगृह्य तान्सुखं प्रवर्तयस्तत्त्वज्ञानार्थमूहस्तर्क इति, यथा बाह्यकेलिप्रदेशादावूर्ध्वस्वविशिष्टधर्मिदर्शना. त्पुरुषेणानेन भवितव्यमिति प्रत्ययः । __ "ननु तत्त्वज्ञानार्थमित्युक्ते सति सामर्थ्यादविज्ञाततत्त्वता लभ्यते एवेति किमर्थ स्वकण्ठेन पुनरनूद्यते ?” बाढं किंतु क्वचिद्विषये ज्ञाततत्त्वेऽपि पूर्वतणावमृष्ट सत्युत्तरकालं तर्कि तोमयाऽयमर्थ इति स्मर्यमाणतर्कविशेषणतया गृह्यमाणो विशेषणीभूतस्तकस्त. त्वज्ञानार्थो भवतीति तद्वयदासाय पुनरविज्ञाततत्त्वग्रहणम् , मार्गशोधनद्वारेण तर्कस्य तत्त्वज्ञानार्थःवमिह विवक्षितं तच्चाविज्ञाततत्त्वेऽर्थे सम्भवतीति ।। "ननु नैव संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययः कश्चिदस्ति, तथा हि यदि तावदनवगतविशेषस्य भवत्यसौ प्रत्ययस्तहि संशय एव भवेदवगतविशेषस्य भवन्निर्णयतामेव स्पृशेत् , पुरुष एवेत्येवकारार्थाद्युन्मेषरहितोऽपि प्रत्ययो निर्णयो न न भवितुमर्हति, तुरगपरिसरणसमुचितदेशदर्शनमपि यदि स्थाणुपते स्थगयितुमलमिति मन्यसे तत्करचरणादिनरविशेषदर्शनवत्तन्निर्णयकारणमेव स्यात् , अथ तस्यामपि तरगविहरणभुवि निखनति कश्चन स्थाणु मिति शङ्कसे, यद्येवं स्थाणुपक्षानपायात्पुनः संशय एत्र स्यादिति न तृतीयः पतः समस्तीति लक्षणभावात्कस्येदं लक्षणमिति ?" उच्यते-न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवेदनीयाः प्रतीतयो वरीतुं शक्याः, तथा हि-स्थाणवों पुरुषो वेति प्रतोतिरेका पुरुष एवायमित्यन्या पुरुषेणानेन भवितव्यमिति मध्यवर्तिनी तृतीया संभावनाप्रतीतिः स्वहृदयसाक्षिकैव, साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः । निणये वितरः पक्षः स्पृश्यते न मनागपि ॥ तकस्त्वेकतरं पक्षं विभात्युत्थापयन्निव । ननु सम्भावनाबीजवाजिवाहनदर्शनाद्वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि सम्भावनामात्रमुपजनयितुमलं न तु शिरःपाण्यादिविशेषदर्शनवत्सर्वात्मना स्थाणु. पक्षापसरणेन पुरुषनिणयाय प्रभवत्यतोऽयमगृहीतविशेषस्यैव भवति प्रत्ययो न तु संशयः एकतरपक्षानुकूलकारणोपपत्त्या जायमानत्वात् , कथं पुनः पाणिपा. दादिपुरुषविशेषवदश्ववाहनदेशविशेषो विशेष कार्य न कुर्यात् करेणैवास्थाणुपतोत्सारणान्निर्णय एवायमिति कस्यैष पर्यनुयोगः, यथा हि शिरःपाण्यादिदशने सति पुरुषनिर्णयो भवति न तथा तुरगवहनदर्शने सति, अननुयोज्याश्च

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656